________________
प्रवचन
सारोद्धारे
सटीके
'पढमवयेत्यादि, 'प्रथमत्रते-प्राणातिपातविरमणलक्षणे नर-तिरश्चामन्न-पानव्यवच्छेदः तथा बन्धस्तथा वधस्तथाऽतिभारारोपणं तथा छविच्छेदः, एते पश्चातिचारा-मालिन्यरूपा भवन्ति, तत्रानपानव्यवच्छेदो-भोजन-पानयोनिषेधो द्विपद चतुष्पदानां क्रियमाणोऽतिचारः प्रथमव्रतस्य, ननु यद्येवं ज्वरादिरोगाक्रान्तानां पुत्रादीनां लङ्घनादिविधापने गृहीतहिंसाविरमणव्रतस्यातिचारो भविष्यति, तदयुक्तम् , सोपस्काराणि हि मूत्राणि भवन्ति, ततः क्रोधादिवशत इति सूत्रे अध्याहर्तव्यम् , ततः क्रोधादिदुषितमना यद्यन्नादिनिषेधं करोति तदाऽतिचारः, यदा तु हितबुद्धया रोगाद्यभिभूतानां पुत्रादीनामन्नादिनिषेधं करोति तदा नातिचार इति, एवमन्यत्रापि क्रोधादिवशत इति द्रष्टव्यम् , न चैतदनार्षम् , यतोऽन्यत्राभ्यधायि-"बंध-बहछविच्छेयं अइभारं भत्त-पाणबोच्छेयं । कोहाइसियमणो गोमणुयाईण नो कुणइ ॥१॥" इत्यादि ।
कि बहुना ?, यद्रोगाद्यभिभूतानां यच्चाफ्ठनादिपराणां पुत्रादीनां यच्च शान्तिकृते उपवासादिकारणं तम्नातिचार इत्यर्थः, तथा बन्धो-रज्ज्वादिना गोमनुष्यादीना नियन्त्रणं स्वपुत्रादीनामपि विनयग्राहणार्थ क्रियते ततः क्रोधादिवशत इत्यत्रापि सम्बन्धनीयम् , अतः प्रबलकपायोदयाद् यो बन्धः सोऽतिचार इति, तथा वधो-लकुटादिना हननम् , कषायादेव वध इत्यन्ये, तथा 'अतिभारारोपणम्' अतिमात्रस्य-वोदमशक्यस्य भारस्यारोपण-गो-करम-रासम-'मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा बहनायाधि
६ गृह्यनिचारद्वारे अणुव्रतातिचाराः ५-५ गाथा २७४ प्र.आ.७१
॥१८९॥
१ तुलना-योगशास्त्रटीका (३४९०) । धर्मसङ्ग्रहः (मा १ पृ० १०० तः) ॥२ बन्ध-बध सहविच्छेदमतिमारं भक्त-पानध्यवच्छे दम् क्रोधादिदूषितमनाः गो-मनुजादीनां न करोति ॥१॥ ३ मनुष्यादीनां-मु०॥
॥१८९॥