________________
प्रवचनसारोद्धार सटीके
६ गृह्यतिचारद्वारे १२ तपसा व्याख्या | गाथा
॥१७८॥
"अपमन्याण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विहिगमणं जोगे संलीणयाभणिया ।" विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्री-पशु-पण्डकादिरहितेषु यदयस्थानम् , यदाहुमहर्षयः"आरामुज्जाणाइसु थी-पसु-पंडगविवज्जिए ठाणंफलगाईण य गहणं तह भणियं एमणिज्जाणं ॥१॥"|६||
चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्य तपो भवति, बाह्यत्वं चास्य बाह्यद्रव्याद्यपेशत्वात् , प्रायो बहिः शरीरस्य तापकत्वात् लौकिकरपि तपस्तया ज्ञायमानत्वान् कुतीर्थिकरएि स्वाभिप्रायेणासेव्यमानत्वाच्चेति ॥२७॥
'पायच्छित्त' मित्यादि, इह चित्तं---जीवो मण्यते, ततः 'प्रायो-बाहुल्येन चित्त--जी विशोधयति-मृलोत्तरगुणविषयातिचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तम् । तत् पुनरालोचनादिकं दशधा, यदाहु:
"आलोयण-पडिक्कमणे मीस-विवेगे तहा विउस्सग्गे । तब छेय-मूल-अणवट्ठया य पारंचिए चेव" ॥शा इति ७॥
२७२ प्र.आ.६७
१ अप्रशस्तानां योगानां निरोधः कुशलानां चोचीरणम् । कार्ये च विधिगमनं योगे सलीनता मणिता। २ आरामोद्यानादिषु स्त्री-पशु-पण्डकधिवजिते स्थानम् । तथा एषणीयानां फलकादीनां ग्रहणं माणितम् ॥११॥
३ तुलना-दश हा टी० (पृ.३० तः) | . ४ मालोचना प्रतिक्रमणं मिश्र विवेकस्तथोत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाराश्चिकं चैव ॥१॥
॥१७८॥
TA