________________
प्रवचनसारोद्धारे
६ गृह्या चारद्वारे पञ्चदशकर्मादानानि गाथा२६५
॥१६३
यथा-बहुकालमहं जीवेयमिति, अयं हि कृतानानः कश्चित् कार-श्रीचन्दन-वस्त्र-माल्य-धवलरासकादिवि. शिष्टपूजादर्शनाद् बहुपरिवारावलोकनाग्निरन्तरागच्छदतुच्छजननिकरण धन्योऽयं पुण्यवानित्यादिक्रियमाणश्लाघाश्रवणात् सङ्घादिधार्मिकजनोपणाच्चैवं मन्यते, यथा-प्रतिपन्नानशनस्यापि चिरतरं जीवितमेव मे श्रेयः, यत एवंविधा मदुद्देशेन शासनप्रभावना विभूतिश्च वर्तन इति ४, तथा कामौ-शब्द-रूपे भोगा:-गन्धरस-स्पर्शास्तेपामाशंमा, यद्यनेन कष्टाराधनाविधिना मम जन्मान्तरे विशिष्टाः कामभोगाः सम्पद्यन्ते तदा भव्यं भवतीत्यादिविकल्परूपाः, एते मरगान्ते पश्चातीचागः ५, एतैः समयविधिकृताऽप्याराधना दृष्यत इति न कर्तव्या एवंविधा आशंसाः, यत उक्तम्
"आशंसया विनिमुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥१॥" ‘पन्नरस कम्मति व्याख्यायते, सत्राह
भाडो फोही साडी वणअंगाररसरूवकम्माई । वाणिजाणि अ विस-लक्ख-दंत-रस केसविसपाणि ॥२६६|| दवदाण जंतवाहण निल्ललण असइपोससहियाणि ।
सजलासयसोसाणि अ कम्माई हवंति पन्नरस ॥२६॥
'भाडी'त्यादि गाथाद्वयम् , तत्र भाटकर्म यत् स्वकीयगन्यादिना परकीयभाण्डं भाटकेन वहति अन्येषां वा बलीवर्द-शकटादीन् भाटकेनैषार्पयति, यदाहुः