________________
प्रवचन
सारोद्धारे ।।१४७।।
तथा "नउत्थ"मित्यादि, चतुर्थ समुत्सारित सुकुमारिकादो पश्चादुद्धरितघृतादिखरण्टितायां तापिकार्या जलेन सिद्धा लपनश्रीः, पञ्चमं पुनः स्नेहदिग्धतापिकार्या परिपक्का पूषिका, एवं च षत्रिकृतिसम्ब धीनि पञ्च पञ्च वितिगतानि मिलितानि त्रिंशद्भवन्तीति ||२३४||
इह च विक्रेतिगतानां स्वरूपं नाऽऽचार्येण स्वमनीषिक्रयाऽभिदधे, किन्तु सिद्धान्ताभिहितमेव, यदाह - 'आवस्सये' त्यादि, आवश्यकष्ण परिभणितं 'अत्र' ग्रन्थे 'वर्णितं' सामान्यद्वारेण 'कथित' विशेषद्वारेणास्माभिः एतच्च कथयितव्यं 'कुशलानां बुद्धिमतां प्रयोक्तव्यं च कारणिके कारणिकविषये ।
अयमभिप्रायः यद्यपि क्षैत्रेयीप्रमुखाणि साक्षाद्विकृतयो न भवन्ति, किन्तु विकृतिगतान्येव निर्वि कृतिकानामपि कल्पन्ते, तथापि उत्कृष्टानि एतानि द्रव्याणि भक्ष्यमाणान्यवश्यं मनोविकारमानयन्ति शान्तानामपि न च कृतनिर्विकृतिकानामेतेषु भक्ष्यमाणेषु उत्कृष्टा निर्जराः सम्पद्यन्ते तस्मादेतानि न गृह्यन्ते इति यस्तु विविधतपःकरण क्षामकुक्षिरनुष्ठानं स्वाध्यायाध्ययनादिकं कर्तुं न शक्नोति स विकृतिगतान्युत्कृष्टान्यपि द्रव्याणि भुङ्क्ते न कश्विदोषः कर्मनिर्जराऽपि तस्य महती भवति यदाहु:
"नवरं इह परिभोगो निव्वियापि कारणावेक्खो । उक्कोसगदव्वाणं न उ अविसेसेण विन्नेओ ॥१॥ आमनिविगईयस्स असहुणो जुज्जए परीभोगो । हंदियजयबुद्धीए विगईचायम्मि नो जुत्तो ||२|| जो पुण विगईचार्य काऊणं खाह निद्धमहुराई । उनको सगदव्वाई तुच्छफलो तस्स सो नेओ || ३ || दीसन्ति य के हं पञ्चवखाएवि मंदधम्माणो । कारणियं पडिसेवं अकारणेणावि कुणमाणा ||४||
४ प्रत्या
ख्यानद्वारे
विकृति
गतानि
१४७॥