SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ४.प्रत्याख्यानद्वारे विकृतिगतानि ॥१४५ गीतार्थाभिप्रायस्तु सुल्लीमस्तकादुनारित शीतले च जाते घृतादों यदि कणिक्कादि प्रक्षिप्यते तदैव तथाविधपाकाभावान् विकृतिगतं. अन्यथा तु परिपक्वत्वाद्विकृतिरेवेति, इयं गाथा अस्माभिरित्थं तावद्वधाख्याता मुधिया तु यधाबोधमन्यथाऽपि व्याख्येया ॥२२६॥ इदानी कस्यां विकृतौ कानि किनामकानि कियन्ति विकृतिगतानि भवन्तीत्याह-'अह पेया' इत्यादि, अथ-अनन्तरं दुग्धे पञ्चैव च शब्दस्यावधारणार्थत्वाद्विकृतिगतानि भवन्ति, विकृती-क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि, न विकृतिरित्यर्थः, कानि तानीत्याह-पेया-दुग्धकानिकमित्यर्थः, तथा दुग्धाट्टी दुग्धावलेहिका दुग्धमाटिका च क्षीरसहिता इति-झरेय्या-पायसेन सहितानि पूर्वोक्तानि चत्वारि, पञ्चमी च ौरेयीत्यर्थः, एतानि क्षीरे पञ्च विकृतिगतानीति ।।२२७॥ एतेषु स्वयमेव कानिचिद्विवृणोति-अंबिले'त्यादि, अंबिलेन युक्ते दुग्धे दुग्धाटी-किलाटिकेत्यर्थः, अन्ये तु बलहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्धे पयःसाटी, पयो-दुग्धं सटति-गच्छतीति व्युत्पत्तेः, तथा तण्डुलचूर्णकमिद्धे दुग्धे अवलेहिका ॥२२८|| दधिविकृतिगतान्याह-'दहिए'त्यादि, दधिन-दधिविषये विकृतिगतानि पञ्च, घोलवटकानिघोलयुक्तबटकानि, तथा घोलो-यस्वगालितं दधि, तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पना, तथा करम्बको-दधियुक्तकूरनिष्पन्नः तथा लवणकणयुक्तं दघि च मषितं राजिकाखाटकमित्यर्थः, तच्च संगरिकादिकेऽपतितेऽपि विकृतिगतं भवति, संगरिकापुस्फलशकलादौ पतिते पुनर्भवत्येव ॥२२९॥ घृतविकृतिगतान्याह-'पक्कघय'मित्यादि, औषधैः पक्वं धृतं सिद्धार्थकादि, तथा घृतकिट्टिका- शा
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy