________________
प्रवचन
सारोद्धारे
॥१३२॥
विकृतिपरिमाणप्रत्याख्यानस्यापि सङ्ग्रहो भवति, यतस्तत्रापि त एव तथैवाकारा भवन्ति. यथा एकासनकस्य पारुष्याः पूर्वार्धस्य च सूत्रे आकाग अभिदधिरे परं द्वयासनकस्य सार्धपौरुष्या अपरार्धस्य च
४ प्रत्याप्रत्याख्यानस्य त एव भवन्तीनि, प्रत्याख्यानं च सूत्रानभिहितमपि भवति, अप्रमादयुद्धेः सर्वत्र सम्भवादि
ख्यानद्वारे त्यदोषः ॥ ननु निस्कृितिके विकृतिपरिमाणे वा प्रन्याख्याने क्वाष्टौ क्व वा नव आकारा भवन्तीत्याह
अशनादि'नवणीओ' इत्यादि, नवनीते-म्रमणकेऽवगाहिमके च-पक्वान्नेऽद्रवदधिपिशितधुतगुडे चैव, अद्रवग्रहणं
|स्वरुप सर्वत्र सम्बन्धनीयं, ना आकाराः 'एसिंति अमीषा विकृतिविशेषाणां भवन्ति, शेषाणां तु द्रवरूपाणामष्टेवाकाराः, अयमभिप्रायः-यत्रोनिक्षप्तविवेकोऽद्रवरूपाणां नवनीतगुडादीनां कर्तुं शक्यते सत्र नवाकाराः, द्रवरूपाणां तु विकृतीनामुदतु मशक्यानां अष्टावाकारा इति ॥२०६॥
इदानीमशनपानादीनांप्रत्याख्येयव्याणस्वरूपमुच्यते-तत्र 'अश भोजने' इत्यस्य 'कृत्यल्युटो बहुलमन्यत्रापी' (पा० ३-३-११३) ति वचनादश्यते इति कर्मणि म्पुडन्तस्याशनमिति भवति, पा पाने' इत्यस्य पीयत इति तथैव पानमिति भवति, 'खादृ भक्षण' इत्यस्य खादनं खादस्तेन निवृत्त 'भावादिमप्' (पा. ४-४-२०) इति वक्तव्यादिमपि खादिममिति भवति 'स्वद स्वाद वदं आस्वादने' इत्यस्य स्वदनं स्वादस्तेन निलमिति पूर्वदिमपि स्वादिममिति भवति, समयभाषया तु निरुक्तेनैषां व्युत्पत्ति क्रियते-यथा आशु क्षुधां शमयतीत्यशनं, तथा प्राणाना-इन्द्रियादिलक्षणानां यदुपग्रहे-उपकारे वर्तते तत्पानं, तथा खमित्याकाशं तब मुखविवरमेव तस्मिन्मातीति खादिम, तथा स्वादयति रसादीन गुणान् । गुडादिद्रव्यं क संयमगुणान् वा यतस्ततः स्वादिमं, हेतुत्वेन तदेवाऽऽस्वादयतीत्यर्थः, अथवा सादयति ॥१३२॥
: