________________
dse न 'दिनादिभक्ते पतितपूर्वस्याऽऽचामाम्लप्रत्याख्यानवतामयोग्ययाद्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य उद्घृतस्य विवेको निःशेषतया त्यागः उत्क्षिप्तविवेकस्तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शनापि न भङ्ग इत्यर्थः यत्तत्क्षेप्तु ं शक्यते तस्य भोजने भङ्ग एव, 'गिम्य संसदेणं' ति गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं त्रिकृत्यादिद्रव्येपोपलिप्तं गृहस्थसंसृष्टं तस्मादन्यत्र विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तकल्पनीयद्रव्य मिश्र भवति तद् भुञ्जानस्यापि न भङ्ग इत्यर्थः यद्यकल्प्यद्रव्यरसो बहु न ज्ञायत इति, 'वोसिरह' अनाचामाम्लं व्युत्सृजति । तथा अभक्तार्थे पञ्चाकाराः, तत्रेदं मूत्रं- 'सूरे उगए अम्भस' पचक्खाह चउच्चिपि आहारं असणं पाणं वाइमं साइमं अनन्यणाभोगेणं सहसागारेणं पारिडावणियागारेणं महत्तरागारेणं साहित्तियागारेण वोसिरह" अस्यार्थः- 'मूरे उग्गए' सूर्योद्गमादारभ्य, अनेन भोजनानन्तरं प्रत्याख्यानस्य निषेध इति ते भक्तेन - मोजनेनार्थ:- प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थः, उपवास इत्यर्थः, आकाराः पूर्ववत्, नवरं पारि छापनिकाकारे विशेषो यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते पानके तूरिते कल्पत एव 'वोसिरह' भक्तार्थमशनादिस्तु व्युत्सृजति । तथा पानकप्रत्याख्याने षडाकाराः, तत्र पौरुपीपूर्वार्ध एकासनएकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषु उत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं उक्तं यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानमाश्रित्य षडाकाराः, तथा च सूत्र
प्रवचन
सारोद्वारे
।। १२९ ।।
४ प्रस्थाख्यानद्वारे
आकारस्वरुपं
॥१२९॥