SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे प्रत्याख्यानद्वारे आकारस्वरूप १२८॥ क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानं 'गुझअम्भुट्टाणेणं' ति गुरुरभ्युत्थानार्हस्याचार्यस्य प्राघूर्ण कस्य याऽभ्युत्थानं तमाश्रित्यामनत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र, गुरुणामभ्युत्थानाईत्वादवयं भुञ्जानेनाप्युत्थानं कर्तव्यमिति न तत्र प्रन्याख्यानभङ्गः 'पारिठावणियागारेण ति परिस्थापनं-सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठायनिक, तदेवाकारस्तस्मादन्यत्र, तत्र हि त्यज्यमाने बहुदोषसम्भवाश्रीयमाणे चामिकन्यायेन गुणसम्भवाद्गुर्वाज्ञया पुनर्भुञानस्यापि न भङ्गः, 'वोसिरइ' व्युत्सृजत्यनेकाशनमशनाद्याहारं च परिहरति । तथा एकस्थाने सप्ताऽऽकारा भवन्ति, तस्येदं सूत्रं-'एकासणं एगहाणं पच्चक्खाइ' इत्यायेकाशनबदाकुश्चनप्रसारणाऽऽकारवर्ज, एक-अद्वितीयं स्थानं-अङ्गविन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं, तद् यथा भोजनकालेऽङ्गोपाङ्ग स्थापितं तस्मिंस्तथास्थित एव भोक्तव्यं, मुखस्य हस्तस्य चाशक्यपरिहारत्वाचलनमप्रतिपिमिति । अथाऽऽचाम्ले अष्टावाकारास्तत्र सूत्रं "आयंबिलं पच्चकवाइ अन्नत्थाणाभोगेणं सहसागारेणं लेवालेवेणं गिहिसंसटेणं उक्वित्तविवेगेणं पारिटायणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह" अस्यार्थ:-आचामः-अवश्रामणं अम्लं-चतुर्थो रसः ताभ्यां निवृत्तमित्यण , एतच त्रिविधं उपाधिभेदात् , तद्यथा-ओदनं कुम्माषान् सक्थूश्च अधिकृत्य भवति, तत्प्रत्याख्याति, आचामाम्लं प्रत्याख्यानं करोतीत्यर्थः, आद्यावन्त्याश्चाकारास्त्रयः पूर्ववत् , 'लेवालेवेणं' ति लेपो भोजनभाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता-खरण्टनं विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलेपोऽलिप्तता, ततश्च लेपश्च अलेपश्च लेपालेपं तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्धा ||१२८॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy