________________
प्रवचन -
सारोद्वारे
॥ १२४॥
भावार्थस्तु निवेद्यते - नमस्कारसहिते प्रत्याख्याने भङ्गपरिहारार्थमनाभोगसह साकारलक्षणौ द्वावाकारौ ज्ञेयौ, ननु कालस्यानुच्यमानत्वात् सङ्केत प्रत्याख्यानमेवेदं प्रतिभाति तत्कथमद्धाप्रत्याख्यानमभिधीयते ?, सत्यं सहितशब्देन मुहूर्तस्य विशेषितत्वाददोषः अथ मुहूर्त्तशब्दोऽप्यत्र न श्रूयते तत्कथं तस्य विशेष्यत्वं १, नखतु गगनारविन्देऽसत्ये मन्दामोदसुन्दरमिदमित्यादीनि विशेषणानि तस्य सहृदयविधीयन्ते, अत्र म:- अद्वाप्रत्याख्यानमध्ये तावदस्य पाठात् पौरुपी प्रत्याख्यानस्य च वक्ष्यमाणत्वानिश्वितं तदवग् मुहूर्त्त एवावशिष्यते ततस्तस्य विशेष्यत्वं नानुपपन्नं, अथ मुहूर्त्तद्वयादिकमपि कस्मान्न लभ्यते ? देकमेव मुहूर्त्त विशेष्यत इति, उच्यते, अल्पाकारत्वादस्य, पौरुष्यां हि पडाकाराः अस्मिथ प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते स च नमस्कारसहितः पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात्, सत्यपि च नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात्, ततः सिद्धमेतत् मुहूर्त्तमानकालनमस्कारसहितं प्रत्याख्यानमिति अथ प्रथम एव मुहूर्ते इति कुतो लभ्यते ?, उच्यते, सूत्रे 'सूरे उग्गए' इति वचनप्रामाण्यात्, पौरुपी प्रत्याख्यानवत्, सूत्रं चेदं - "रिए उग्गए नमोकार - सहियं पच्चखा उब्विपि आहारं असणं पाणं खाहमं साइमं अन्नत्थणा भोगेणं सहसागारेण वोसिरह" अस्य च सूत्रस्याग्रेतन पौरुष्यादिसूत्राणां च विस्तारवती व्याख्या स्वस्थानादेव ज्ञातव्या, परमाकाराणां स्वरूपपरिज्ञानाय किंचिद्वयाख्यायते सूर्ये उगते सूर्योद्रमादारभ्येत्यर्थः, 'नमस्कारेण'
raftaar and प्रत्याख्याति 'सर्वे धातवः करोत्यर्थेन व्याप्ता इति भाष्यकारवचनान्नमस्कारसहितं प्रत्याख्यानं करोति, इदं गुरोर्वचनं शिष्यस्तु प्रत्याख्यामीत्येतदाह एवं व्युत्सृजतीत्यत्रापि वाच्यं,
४ प्रत्याख्यानद्वारे
नमस्कारा
दिप्रत्या
ख्यानेषु
आकाराः
||१२४||