________________
प्रवचन
सारोद्धारे
४ प्रत्याख्यानद्वारे दशविधप्रत्याख्यानानि
॥१२०॥
कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं मुणेयच्या ॥१॥" इति वचनात , ततश्च दत्तिभिरेकद्वियादिभिः कवलैश्चैकद्विव्यादिभियावदेकत्रिंशत् पुरुषस्य स्त्रियाश्च यावत्सप्तविंशतिः, गृहैश्चैकद्विव्यादिभिर्भिक्षाभिः संसृष्टादिभिगृहस्थेन दीयमानादिभिरेकद्वयादिभिर्द्रव्यैश्च पायसौदनमुद्रादिभिर्यत्र शेषाऽऽहारपरित्यागस्तत्परिमाणकृतं प्रत्याख्यानमित्यर्थः ७ ॥१९७।।।
इदानीं निरवशेषमाह-सव्वं असणमित्यादि-'अश भोजने' अश्यत इत्यशनमोदनमण्डकमोदकम्वज्जकादि पीयत इति पानं कर्मणि ल्युट् खजू द्राक्षापानादि खादनं खादो भावे घन खादेन नितं खादिमं सावादिम्' (पा. ४.४.२० हा निति इमनि खादिम -नालिकेरफलादि गुडथानादिकं च स्वदनं स्वादस्तेनैव नितं तथैवेमनि स्वादिम--एलाफलकपू रलवङ्गपूगीफलहरीतकीनागरादि ततश्च सर्वमशनं सर्व पानकं खादिमं च सर्वमप्युत्सृजति-परित्यजति स्वादिममपि सर्व यनिरवशेष तद्विझेयमिति ८ ॥१९॥
साकेतमिदानीमाह-'केय'मित्यादि-'कित निवासे' इत्यस्य धातोः कित्यते-उध्यते अस्मिन्निति घत्रि केतो गृहमुच्यते सह तेन वर्तन्ते इति सहस्य स्वभावे सकेताः--गृहस्थास्तेषामिदं 'तस्येद' (पा०४३-१२०) मित्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति, अथवा केतं-चिह्नमुच्यते सह केतेन--चिहनेन वर्तते इति सकेत सकेतमेव प्रज्ञादित्वात्स्वार्थेऽणि साकेतमाहुमुनयः १ ॥१९॥
तच्चैवं भवति-श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादी प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो मा
॥१२०॥
SUNELORAN
MAINEEREBSIST
HWARE