________________
प्रवचन
सारोद्वारे
॥११३॥
पञ्चविंशतिश्लोकानां चतुर्भिगुणने शतं पादानां भवति, 'गोसे'ति प्राभातिको द्योतकरद्वयेऽर्थं शतस्य भवति पादानां पञ्चाशदित्यर्थः, तिन्नेव यत्तिको द्वादशोद्योतकराणां शतत्रयं पादानां भवति, द्वादशानां पञ्चविंशत्या गुणने शतत्रयसम्भवादिति (पचय चाधम्मासे' त्ति चातुर्मासिकप्रतिक्रमणोद्योतकरविंशती चिन्त्यमानायां पञ्च शतानि पादानां भवन्ति, विंशतेः पञ्चविंशत्या गुणने पञ्चशतसम्भवादिति, 'वरिसेति वार्षिकप्रतिक्रमणोत्स गोद्योतकरचत्वारिंशतो नमस्कारस्य च चिन्तने अतरसहस्रं पादानां भवति, चत्वारिंशतः पञ्चविंशत्या गुणने सहस्रसम्भवात् नमस्कारस्य चापादरूपत्वाच्चेति पदशब्देन चात्र पाद एवं ज्ञातव्यः, प्राकृतत्वेन हूस्वकरणात् यद्वा पादस्यैवायं पदशब्दः पर्यायो ज्ञेय इति ||१५||
"
to कुत्र प्रतिक्रमणे कियन्ति क्षमणकानि भवन्तीत्याह- 'देवसिये' त्यादि, इह दैवसिकग्रहणेन रात्रिपाचिकयोरपि ग्रहणं तुल्यवक्तव्यत्वात् ततो देवसिकरात्रिकपाक्षिकेषु चातुर्मासिके सांवत्सरिके 'चपर्वणि 'प्रतिक्रमणमध्ये' प्रतिक्रमणे क्रियमाणे 'मुनयः' साधवः क्षम्यन्ते, तत्र त्रयः पञ्च सप्त च 'क्रमात् ' यथासङ्ख्येनेत्यर्थः, अयमभिप्रायः - देवसिकरा त्रिकयोस्त्रयः साधवः क्षाम्यन्ते, पाक्षिकेऽपि त्रयः, यदुक्तमावश्यकचूर्णी पाक्षिक पतिक्रमणप्रस्तावे - ' एवं जहन्नेणं तिनि, उकोसेणं सच्चेवि' त्ति [ एवं जघन्येन त्रयः उत्कृष्टतः सर्वेऽपिः ] चातुर्मासिके पश्च सांवत्सरिके च सप्तेति वृद्धसमाचारी तु देवसिकरात्रिकयोस्त्रयः पाक्षिके पञ्च चातुर्मासिकसांवत्सरिकयोस्तु सप्त यदुक्तं पाक्षिकवृत्तौ सम्बुद्धक्षमण प्रस्तावे - ' एवं जहन्ने तिनि वा पञ्च वा चाउम्मासिए संवच्छरिए य सत्त उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिज्जति 'त्ति
३ प्रति
क्रमणद्वारे
प्रतिक्रमणे
क्षमण
काणि