________________
प्रवचनमागेद्धारे
|३ प्रतिक्रमणद्वारे देवसिका.
दिषु
कायोत्सर्गाः
ननु ज्ञातमिदं देवसिकादिप्रतिक्रमणकायोत्सर्गेबेतावन्त एवैतदन्ताश्चिन्त्यंत इति, परमेषु चतुरा. दिषु 'चंदेसु निम्मलयरा' इत्यन्तेषु लोकम्योद्यानकरेषु चिन्यमानेषु कुत्र कियन्तः श्लोका भवन्तीत्याह-'पणवीस'इत्यादि, देवसिकप्रतिक्रमणे लोकस्यायोतकरचतुष्टये चिन्त्यमाने पञ्चविंशतिः श्लोका भवन्ति, विद्वद्भाषया गाथादयोऽपि श्लोका भण्यन्ते, तत्रैकस्मिन्नुद्योतकरे पट् श्लोकाः, ते च चतुगुणा श्चतुर्विंशतिः, एकश्च पादश्चतुगुण एकः श्लोक इति मिलिताः पञ्चविंशतिः श्लोकाः प्राभातिकप्रतिक्रमणे उद्योतकरद्वये तथैव चिन्त्यमाने द्वादश श्लोकाः श्लोकाधं च, षट् द्विगुणा द्वादश पादश्च द्विगुणस्तदर्ध भवन्त्यतः अर्थत्रयोदशेति, 'सिलोग पन्नत्तरी यत्ति श्लोकानां पञ्चसप्ततिः पाक्षिकप्रतिक्रमणोद्योतेषु द्वादशसु तथैव चिन्त्यमानपु, यतो द्वादश पड्गुणा द्विसप्ततिः, पादश्च द्वादशगुणितः श्लोकत्रयं, मिलिताश्च पञ्चसप्तसिद्धिव्या । 'सयमेगं पन्नवोस' ति चातुर्मासिकप्रतिक्रमणे विंशत्युद्योतकरेषु पञ्चविंश श्लोकशतं भवति, यतो विंशतिः षड्भिगुणिता विशं शतं, पादत्रिंशतौ च पञ्च श्लोकाः, मिलिताः पञ्चविंशं शतमिति, 'ये बावन्ना य परिसंमि' ति द्वे शते द्विपश्चाशदधिके श्लोकानां वार्षिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशदद्योतकराणामटोच्छवासनमस्कारस्य च चिन्तनेन भवत, चत्वारिंशतः पडिभगुणने पादचत्वारिंशति च श्लोकदशकरूपायर्या क्षिप्तायां सार्धे वें शते, ततो भवतो नमस्कारस्य चाष्टोच्छ्वासस्य चिन्तने द्वौ श्लोको, मिलिताश्च द्वे शते द्विपश्चाशदधिके भरत इति ।।१८४॥
ननु कस्मिन् कायोत्सर्गे कियन्तः पादा भवन्तीत्याह-'सायसय'मित्यादि, 'साये'त्यत्रानुस्वारलोपः प्राकृतत्वात्कृतः, ततः सायं-सन्ध्यायां प्रतिक्रमणे शतं पादाना, तत्र श्लोकस्य चतुष्पादरूपत्वाद