SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रवचन सागेद्वारे ॥ १०६ तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति एवं प्राभातिकप्रतिक्रमणादिष्वपि तदनु 'वंदणय'त्ति चन्दनकं ददानि चः समुच्चये, इदं च चन्दनक्रमल्लियाणदणयमित्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः 'चरितउस्सग्गो' ति तदनु चारित्रविशुद्धयर्थं कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीयम् ॥ १७५ ॥ 'दंसणे' त्यादि ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनं तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्राप्येकोधनकरचिन्तनं 'सुगदेवयखेत्सदेवयाणं चत्ति तदनु श्रुतसमृद्धिनिमित्तं श्रुतदेवताया: कायोत्सर्गमेrनमस्कारचिन्तनं च कृत्वा तदीयां स्तुतिं ददाति अन्येन दीयमानां शृणोति वा ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्र देवतायाः कायोत्सर्गः कार्यः एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुतिं ददाति परेण दीयमानां वा शृणोति चः समुचये, तदनु नमस्कारमभिधायोपविश्य ' पुत्तिय' त्ति मुखपोत्तिकायाः प्रत्युपेक्षणं, तदनु 'वंदण' त्ति मङ्गलादिनिमित्तं वन्दनकं देयं तदनु 'इच्छामो अणुसडिं' इति भणित्वा उपविश्य गुरुभिरेक स्तुतौ भणिताय 'थुइतिय' त्ति प्रवर्धमानं स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयं, तदनु 'सक्कथयं' ति शक्रस्तवो भणनीयः 'थोत्तं' ति तदनु स्तोत्रं भणनीयं तदनु दिवसाविचारविशुद्धये कायोत्सर्गः करणीयः लोगस्योद्योतकरचतुष्टयं च चिन्तनीयं इदं च गाथायाममणितमपि विज्ञेयं, 'देव सियं'ति इदं सन्ध्या देवसिकं प्रतिक्रमणं विज्ञेयम् ॥ १७६ ॥ ३ प्रतिक्रमणद्वारे देवसिक प्रतिक्रमण - विधिः ||१०६||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy