SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार २ वन्द कद्वारे ३२ दोन एकोनविंशं दोषमाह--'नवि कुप्पसी' ति काष्ठघटितशिवदेवताविशेष इवाबन्धमानो न कुप्यसि, तथा वन्धमानोऽप्यविशेषज्ञतया न प्रसीदमीत्येवं तर्जयन-निर्भर्सयन् यद् वन्दते तत्तजितमुच्यते, यदिवा 'लोकमध्ये बन्दनकं मां दापयन त्वं तिष्ठसि सूरे ! परं ज्ञास्यते तवैकाकिन' इत्यभिप्रायवान यदा शीणागुल्या वा प्रदेशिनीलक्षणया आदिशब्दाद् भ्र प्रभृतिभिगुरु प्रणिपतन्-वन्दमानम्तर्जयति तदा तर्जितं भवतीति १९ ॥१६६॥ विंशतितमं दोषमाह-वीसंभट्ठाण मिति विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनक, एतस्मिन यथाबद्दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सम्भावजड्डे'त्ति सद्भावरहिते अन्तर्वासनाशून्ये चन्दमाने सति शिष्ये शठमेतद्वन्दनकं भवतीति शठशब्दमेव पर्यायशब्दाचष्टे कपटमिति कैतवमिति च शठताऽपि चेति भवन्त्येकार्थाः २० ॥१६७॥ एकविंशतितमं दोषमाह -'गणिवायग'त्ति गणिन् ! बाचक ? ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रास हीलयित्वा यत्र बन्दते तद् हीलितवन्दनकमुच्यते २१ । द्वाविंशं दोषमाह-दरवंदियोंमिति ईपद् चन्दितेऽपि देशादिका विकथा यत्र करोति तद्विपरिकुश्चितमिति २२ ॥१६॥ गोविंशं दोषमाह--'अंतरिउ' ति बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितस्तमसि वा सान्धकारे प्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वा आस्ते न तु वन्दते दृश्यमाणस्तु वन्दते, एतद् दृष्टादृष्टं वन्दनकमभिधीयते २३ । चतुर्विशं दोषमाह-'सिंगं पुण मुद्धपासहिंति मुर्धशब्देनेह ललाटमुच्यते तस्य पाचौं-वामदक्षिणभागो ताभ्यां यद्ददाति बन्दनं तत् शृङ्गमुच्यते, इदमुक्तं भवति 222810740A M ERARINEERROR : RA
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy