________________
प्रवचनसारोद्धारे
२ वन्द कद्वारे
३२ दो
गौरवनिमियन्दनानिति, तदिमाह - 'सिक्वाविणीओऽहं' ति शिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीत:-कुशलोऽहमित्यवगच्छंत्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदावर्ताधाराधयन् यत्र वन्दने तद्गौरववन्दनकमित्यर्थः १४ ॥१६२||
इदानी पञ्चदशं दोषमाह-कारणलक्षणदोषमभिधिन्सुः कारणस्यैव तावलक्षणमाह-'नाणाइतिर्य' ति ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रकम्बलादि वन्दनकदानात्साधुरभिलपति तत्कारणं भवतीति प्रतिपत्तव्यं तस्माद्वन्दनकं कारणवन्दनकमिति । ननु ज्ञानादिग्रहणार्थ यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याह-'पूयेत्यादि, यदि पूजाशयेन गौरवाशयेन वा ज्ञानादिग्रहणेऽपि वन्दते तदा तदपि कारणवन्दनकं भवतीति, अत्र च 'नाणग्गहणेऽवि' ति उपलक्षणत्वादर्शनचारित्रग्रहणेऽपीति १५ ॥१६३॥
षोडशं दोषमाह-'हाउं परस्से' ति परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं हित्वापञ्चयित्वा वन्दमाने सति शिष्ये स्तैन्यवन्दनकं भवति, एतदेवोत्तरार्थन स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाधन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह-'ओभावणा मा में त्ति नन्वसावष्यतिविद्वान किमन्येषां वन्दनकं प्रयच्छन्तीत्येवंरूपाऽपभ्राजना मम मा भूदित्यर्थः १६ ॥१४॥
सप्तदशं दोषमाह-'आहारस्स उ' इत्यादि, आहारस्य नीहारस्य वा-उच्चारादेः काले वन्दमानस्य भवति प्रत्यनीकवन्दनकमिति १७ । अष्टादशं दोषमाह-रोसेण' ति रोषेण केनापि स्वविकम्पजनितेन 'धमधर्मितो'त्ति जाज्वल्यमानो यद् वन्दते तद् रुष्टवन्दनकमिति ॥१८॥१६५।।....