________________
प्रवचन
सारोद्वारे
।। १८ ।।
परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरपरैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनः प्रद्वेषो भवति यत्र तन्मनः प्रद्विष्टमुच्यते, 'अप्पपरपत्तिएणं' ति यदा पराप्रीतिकेन च मनःप्रदुष्टं भवति, भावना पूर्ववत् ९ । दशमं दोषमाह - 'वेइयापणगंति' जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा एक वा जानु दक्षिणं वा वा वा करद्वयान्तः कृत्वा यत्र वन्दनकं विधत्ते तद्वेदिकापञ्चकदोषदुष्टवन्दनकमिति १० ॥ १६०॥
एकादशं दोषमाह-- भयंति निज्जूहणाईयं'ति- निर्यूहनं गच्छानिष्काशनं तदादिकं यद्भयं तेन यद्वन्दते तद्भयवन्दनकमाख्यायते इति यथासम्भवं साध्याहारा सर्वत्र व्याख्या कर्तव्या, सूचामात्रात् सूत्रस्येति ११ ॥१६१॥
द्वादशं दोषमाह-- 'भय व भइस्सइ वत्ति' मर्तव्यं भो आचार्य भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् बन्दते, किमर्थं ?- भजते चा मां भजनं वा मे करिष्यतीतिहेतोः, किमुक्तं भवति ?- एष तावद्भजते - अनुवर्तते मां सेवायां पतितो वर्तते ममेत्यर्थः, अग्रे च मम भजनं करिष्यत्यसौ,
वामपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायेण वा यत्र वन्दते तद्भजमानवन्दनकमभिधीयते इति १२ । त्रयोदशं दोषमाह – 'एवमेवेति मित्तीए 'ति एवमेवेति कोऽर्थः १-यथा निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्याऽपि - मैत्रीमाश्रित्य कश्चिद्वन्दते, आचार्येण सह मैत्री-प्रीतिमिच्छन् बन्दत इत्यर्थः, तदिदं मैत्रीचन्दनकमुच्यते १३ । चतुर्दशं दोषमाह--' गारव सिक्खाविणीओऽहं' ति 'गारवा'ति
२ व
कद्वारे
३२ दो
॥ १८