________________
::.
प्रवचनमारोद्धारे
२ बन्द कद्वारे
३२ दोष
षष्ठं दोषमाह-'उवगरणे ति यत्राङ्कुशेन गजमिव शिष्यः मूरिमूर्धस्थितं शयितं प्रयोजनान्तरव्यग्रं बोपगरणे-बोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तदकुशवन्दनकपुच्यते, न हि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमहन्त्यविनयत्वात, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटे विनयपूर्वकमिदमभिधीयते-उपविशन्तु भगवन्तो येन बन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति, आवश्यकत्तौ तु रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा यद्वन्द्यते तदं कुशमिति व्याख्यातं, अन्ये तु अनुशाक्रान्तस्य हस्तिन इव शिरोऽवनमनोनमने कुर्वाणस्य यद्वन्दनं तदङ्कुशमित्याहुः, एतच्च द्वयमपि सूत्रानुयायि न जमति, समय पुरावा मानन्तिम सप्तमं दोषमाह-'ठिउविहरी' ति स्थितस्योर्ध्वस्थानेन 'तितोसन्नयरा' इत्यादिसूत्रमुच्चारयतः उपविष्टस्य-आसीनस्य 'अहो कायं काय' इत्यादि सूत्रं भणतः कनछपस्येव-जलचरजीवविशेषस्येव रिङ्गणं-अग्रतोऽभिमुखं पश्चादभिमुखं च यत् किश्चिच्चलन तरच यत्र करोति शिध्यस्तत्कन्छपरिङ्गितं जानीहि ७ ॥१५॥
अष्टमं दोषमाह-'उदितनिवेसिंतो' त्ति उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इव उद्वर्तते-उद्धेल्लति यत्र तन्मत्स्योद्वृत्तं अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दनाह कञ्चन बन्दितुमिच्छंस्तत्समीपं जिगमिघुरुपविष्ट एव झष इव-मत्स्य इव त्वरितमङ्ग परावृत्य यद्गच्छति तन्मत्स्योद्वृत्तं, इत्थं च यदङ्गपरावर्तनं तज्झपावर्तमित्यभिधीयते ८॥१५९॥
नवममाह-'अप्पपरपचएणं' ति मनसः प्रद्वेषोऽनेकनिमितो भवति, सच सर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् , तत्राऽऽत्मप्रत्ययेन यदा शिष्य एव गुरुणा किन्नित्परुषमभिहितो भवतीति,
SOPAN