________________
प्रवचन सारोद्धारे
॥८९॥
विंशतितमीमाह-वहति बहु भणंति' इत्यादि, खरम्-अत्यर्थ कर्कशेन-परुषेण बृहता च स्वरेण खद्रं-बहु प्रचुरमित्यर्थः रत्नाधिकं भाषमाणे शिष्ये आशातना २०, 'तत्थ गए होहमा चऽन्न'- २ वन्दनकत्ति शिष्यो ग्वाधिकेन व्याहतो यत्रास्ते तत्रस्थ एवोल्लापं ददाति, न पुनः समीपमागत्योत्तरं ददातीति, इयं चान्याऽऽशातना शिष्यस्य ।।१४२॥
___ अत एवाह-'सेहो गुरुणा भणि ओ तत्थ गओ सुणइ देइ उल्ला' इति व्याख्यातार्थम् २१, एवं आशातनाः 'किंति च भणइ'त्ति शिष्यः मूरिणा व्याहृतः किमित्येवं वक्ता, किं भणसीत्यर्थः, एवमाशातना शिष्यस्य, मम्तकेन बन्दे इति चेह वक्तव्यमिति २२ ॥१४३॥
एवं 'तुमंति भणइत्ति शिष्यो रत्नाधिकं त्वमिति एकवचनान्तेन वक्ता भवति, 'कोऽसि तुम मज्झ चोयणाए उत्ति कस्त्वं मम प्रेरणायामित्यादीनि शिष्यस्याशातना, शिष्यैः श्रीभगवन्तः श्रीपूज्या ययमित्यादिभिरेव वचनैगु खो भाषणीया इति २३, एवं 'तजाएणं पडिभणणाऽऽसाहणा सेहे'त्ति शिष्यो रनाधिकं तज्जातेन-तैरेव गुरूक्तवचनः प्रतिभणिता भवति, कोऽर्थः १-सूरिणा शिष्य उक्तो-'अज्जो किन गिलाण'न्ति ग्लानस्य किमिति किश्चिन करोषि ?, स ब्रते-त्वं किमिति न करोपि, तथा सूरिवदति-त्वमालस्यवान्, स वदति-भवानेवालस्यवानित्यादिस्वरूपेण तज्जातेन गुरु प्रति भणिते भवत्याशातना शिष्यस्येति २४ ।।१४४॥
'नो सुमण'त्ति इत्यस्य व्याख्या-'रायणिए य कहते कहं च एवं असुमण'त्ति एवं धर्मगुरौ कथा कथयति असुमनस्त्वे सति शिष्यस्याऽऽशातना, अहो एवमिदं शोभनं कथितं पूज्यैरपीति सुमना ।