________________
ummelawaimoon
प्रवचनसागरोद्धारे सटीके
प्राक कथनम्
mmonstanARIMARowwwwanSTEM
anemunitlesindimenswwwima
ti a
(९) वि. प. (विषमपद.)
प्रतिरियं खम्भातस्थित शान्तिनाथ जैनज्ञानभाण्डागारसत्का, तालपत्रीया । देध्य-पृथुलते - १७४२ च ।
३२०३ श्लोकप्रमाणात्मकं श्रीउदयप्रभमूरिनिर्मितं विषमपदार्थावबोधाख्यमेतद् टिप्पनकमद्यावधि न प्रकाशितमस्ति । अस्माभिरस्योपयोगो यत्र तत्र टिप्पण्यां (पृ.२५३ । टि.२ पृ.२५४। टि.१,२,३,४ इत्यादि ) पाठभेदादिनिदर्शनार्थ कृतोऽस्ति । सं. प्रत्या अस्माभिः पूर्ण उपयोगः कृतः, अन्यासां यथासम्भवमांशिक उपयोगः कृतः ।
प्रस्तुत सम्पादनम अत्यन्तोपयोगिनोऽस्य ग्रन्थरत्नस्य मुद्रणं प्राक् जामनगरवास्तव्यैः पं. हीरालाल हंसराजमहोदयः कारापितमासीत् । ततः श्रीमदानन्दसागरसूरिवर्यलिखितोपोद्घातयुक्तमेतदेव ग्रन्थरत्नं देवचन्द्र लालभाई जैन पुस्तकोद्धारसंस्थया प्राकाश्यं नीतम् ।
अधुना दुर्लभतरस्यैतस्य ग्रन्थस्य पुनः सम्पादनयुक्तं प्रकाशनमतीवाश्यकमिति मत्वा पूज्यपादपंन्यासप्रवराणां श्रीमता जयघोपविजयमहाराजानां प्रेरणया भारतीय-प्राच्यतत्त्व-प्रकाशन समितिनिश्रया प्राकाश्यं नीयते; अतस्तेषां श्रुतभक्तिभूयो भूयो धन्यवादमर्हति ।
Mpmindivityap