________________
प्रवचनसारोद्धारे
॥७९॥
२ बन्द कद्वारे ५ उदा हरणद्वा कृष्णोद हरण
बहिर्गनानामस्माकमाकस्मिकमजायन । शूलं वेला ततो लना, साध्वादीनित्युवाच सः ॥११॥ प्रशमामृतमन्नोऽसौ, गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्तं प्रपन्नवान् ॥१२॥ द्रव्यतश्विनिकर्माभूत, पुरा रागाढयचेतसः । प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥१३॥
इदानीं कृतिकर्मणि कृष्णोदाहरणंयथा-सुराष्ट्रमण्डले श्रीमद्वारमत्यामभून्पुरि . निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥१॥ तस्य शालापतिर्भक्ती, वीरको नाम सेवकः । वासुदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ २ ॥ पासुदेवो न वर्षासु, कुरुने राजपाटिकाम् । बहवो हि विपद्यन्ते, जीशस्तस्यां तदा किल ॥३॥ अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राघुवन् प्रवेशं च, द्वाःस्थतो द्वारि वीरकः ॥ ४॥ गोमयालेपिका कृत्वा, पुष्पैरभ्यर्च्य चाबजत् । नित्यं नाभुङ्क्त न श्मश्रुनखशुद्धिं व्यधापयत् ॥५॥ निवृत्तास्वथ वर्षासु, विधातु राजपाटिकाम् ! निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥६॥ मुदिते वीरकेऽथेत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, कृशो विच्छायविग्रहः ॥ ७ ॥ देवपादेष्वदृष्टेषु, नाकार्षीभोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिबपत् ॥८॥ तुष्टः प्रसादात् कृष्णोऽथ, समभाषिष्ट वीरकम् । अवारितप्रवेशं च, तं सर्वत्राप्यचीकरत् ॥९॥ इतश्व-कृष्णोऽपि किल निःशेषाः, विवाहसमये निजाः । प्रणन्तुमागताः पादानिति पृच्छति पुत्रिकाः॥१०॥ स्वामिन्यः किमु दास्योवा, वत्सा! यूयं भविष्यथ ?ताश्चप्रादुर्भविष्यामः, स्वामिन्यस्त्वत्प्रसादतः॥११॥ कृष्णोऽप्युवाच यद्येवं, वत्सानां सम्मतं तदा । सनिधौ नेमिनाथस्य गृहणीत व्रतमुत्तमम् ॥१२॥