________________
प्रवचनसारोद्धारे
॥७७॥
२ वन्दन| कद्वारे ५ | उदाहरणद्वारे भाव शीतलको | दृष्टांता
शीतलश्च महीपालश्चास्वैराग्यरञ्जितः । श्रीधर्मघोषमूरीणामन्तिके व्रतमग्रहीत् ॥५॥ तं च विज्ञातसिद्धान्ततस्वं गीतार्थशेखरम् । गुरवस्तद्गुणैस्तुष्टाः, स्वपदेऽथ न्यत्रीविशन् ।।६।।
अन्येधुनिजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राज्ञी, रहस्येवमवोचत ।। ७॥ वत्सा ! यौमाक एवेकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ।।८।। यश्च निःशेषशास्त्राब्धिपारदृश्वा मुनीश्वरः । निस्सङ्गं विहरन्नित्यं, प्रबोधयति देहिनः ।। ९ ।। पचेलिमं यथाऽग्राहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातु, भवतामपि युज्यते ॥ १० ॥ यता-कोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवनं च धर्मः कदाचन ।।११।। इत्थं मातुर्वचः श्रुत्वा, संविना जनक निजम् । तेऽनुज्ञाप्याहतीं दीक्षा, जगृहुः स्थविरान्तिके ।। १२॥ सञ्जातास्ते च गीतार्था. वन्दितु निजमातुलम् । अवन्त्यां च गताः सायं, तद्भाह्यायामवस्थिताः||१३|| अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्गिरा । श्रीशीतलमुनीन्द्राय, तत्स्परूपं न्यवेदयत् ।।१४।। इतश्च-शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥१५॥ ततश्च कृतकृत्यत्वाद्यावतत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुत्कः श्रीशीतलोऽजनि ॥१६॥ यामादृवं स्वयं तेषामन्तिकेऽसौ गतस्ततः । अनादरपरस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ||१७|| ऐर्यापथीं प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो बन्दे, तेऽप्यूचुस्ते यतो मतम् १ ॥१८॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः । क्रोधाध्मातो ददौ तेषां, चतुर्णामपि वन्दनम् ॥१९॥ कपायकण्डकारूढं, तमुचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानीं देहि भावतः ॥२०॥