________________
प्रवचन
सारोद्वारे
।। ७६ ।।
द्रव्यतो भावत, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीन, तथा विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकार कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भाaas, द्रव्यतो ह्निवादीनामनुपयुक्त सम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति ।। १२७ ।
'पंचेव आहरण'त्ति द्वारं - 'सीयले 'त्यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिगृ हीतसर्वज्ञोऽण्णेन तदीयगुणगणेन प्रमोदमानमानसैर्निजगुरुभिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभा
भन्ने बन्द उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरैर्निजगुरुभिगुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेक महाप्रचण्ड मण्डलेश्वर मण्डली मौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातल समुच्छलदनवरतस्फुरद्रुण किरण पुञ्ज पिञ्जरित चरणकमलः शालापतिवीरक कलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्य भावभेदभिन्ने सेवकद्वयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशास्त्राबुदाहरणं, पञ्चैते दृष्टान्ताः कृतिकर्मणि- सामान्यतो वन्दनके भवन्ति ज्ञातव्याः || १२८ ||
उदाहरणानि चैतानि सङ्क्षेपतः कथ्यन्ते, तत्र भावतः शोतलको दाहरणं यथाअनिता भालतिलके श्रीपुरे पुरे | प्रतापशकान्तदिक्चकः, क्ष्मापालः शीतलोऽजनि ॥ १ ॥ सर्वज्ञशासन क्षीरनीर सद्गतिस्तुतः । शुद्धपक्षद्वयो राजहंसः क्रीडति यः सदा ॥ २ ॥ तस्याभृद्भगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्मनिर्माणपरा शृङ्गारमञ्जरी ॥ ३ ॥ साच विक्रमसिंहस्य, राज्ञी जाता जगत्पतेः सल्लक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ ४ ॥
२ वन्दन कद्वारे
५ उदाहरणानि
।। ७६ ।।