________________
प्रवचनसारोद्धारे
२ वन्दनकद्वारे अपग्रहः
॥७४॥
पसंते आसणत्ये य, उवसंते उवहिए । अणन्नवित्त मेहावी, किकम्म पउंजए ॥१२५ ॥ आयप्पमाणमित्तो चउदिसिं होइ उग्गहो गुरुणो ।
अणणन्नायस्स सया न कप्पए तस्थ पविसेउं ॥१२६ ॥ 'वक्वित्ते'त्यादि, व्याक्षिप्त अनेकभविकलोकमकुलायां सभायां देशनाकरणादिना व्यग्रं १, पराहूतमिति-केनापि कारणेन पराङ्मुखं २, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत ३, आहार या कुर्वाणं ४ नीहारं उच्चारं वा यदि करोति ५ तदा न वन्देतेति सम्बन्धः ॥ १२४ ।।
इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासङ्ख्यं न ज्ञातव्याः, एताद्वपक्षस्त्वत्रानुक्तोऽपि विज्ञेयः, यथा-'पसंते'त्यादि, तत्र प्रशान्तो-व्याक्षेपविरहितः आसनस्थोनिषद्यास्थितः उपशान्तः-क्रोधादिप्रमादरहितः उपस्थितः-छन्दे नेत्यादिवचनमुच्चारयन् , शेषं सुगमम् ।। १२५ ॥ __अथ 'एक्कोवगह'त्ति द्वारं तबाह-'आयप्पमाणे त्यादि, आत्मप्रमाणमात्रः-सार्धहस्तत्रयप्रमाणचतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टु, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रध्यक्षेत्रकालभावभेदैः षड्विधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेखग्रहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृह्णाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृह्णाति, यथा, तुबद्धे मासमेकं वर्षासु चतुरो मासानीति, भावावग्रहो द्वैधा-प्रशस्तोऽ
७४॥
N