________________
प्रवचन
तथा - 'सच्दे'त्यादि, स्वच्छन्दा - आगमनिरपेक्षा याऽसौ मतिस्तया विकल्प्य किञ्चिदालम्बनमध्ययनादिकं ततः सुखमास्वादयतीति सुखास्वादः स चासो विकृतिप्रतिवद्ध स तथा अपुष्टालम्बनं किंचि सारोद्वारे द्विकल्प्य यः सुखसुर्विकृतिप्रतिबद्धो भवतीत्यर्थः तथा त्रिभिगौरव:- ऋद्विरससातलक्षणैर्यो माद्यति तं जानीहि यथाछन्दमिति ॥ १२३ ॥
॥ ७३ ॥
अत्र च पार्श्वस्थं सर्वथैवाचारित्रिणं केचिन्मन्यन्ते तच न युक्तियुक्तं प्रतिभासते सहृदयानां यतो यद्येकान्तेनैव पार्श्वस्थोऽचारित्री भवेत् तर्हि सर्वतो देशतश्व इति विकल्पयकल्पनमसङ्गतं भवेत्, चारित्राभावस्योभयत्रापि तुल्यत्वात् तम्मादेव भेदद्वयकल्पनाद् ज्ञायते सातिचारचारित्रसचापि पार्श्वस्थस्य, न चेदं स्ममनीषिकयोच्यते, यतो निशीवचूर्णावप्येवं दृश्यते – “पासस्थो अच्छइ सुत्तपोरिसिं अत्थपोरसि च नो करेइ, दंसणाइयारेसु वट्ट, चारिते न वट्ट, अड्यारे वा न वज्जेह, एवं सत्थो अच्छड़ पासस्थो "त्ति [ पार्श्वस्थ स्तिष्ठति सूत्रपौरुषीं अर्थपौरुषीं च न करोति, दर्शनातिचारेषु वर्त्तते चारित्रे न वर्त्तते अतिचारान् वा न वर्जयति एवं स्वस्थस्तिष्ठति पार्श्वस्थः ] अनेन ग्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न चारित्राभावोऽवसीयते, किंतु शत्रलितचारित्रयुक्तताऽपीति ।
"पंचेव पडिसेहेति" द्वारमधुना, तत्राह -
वक्त्राहुत्ते मते मा कयाह दिखा । आहार व करिते नीहारं वा जह करेह ॥ १२४ ॥
२ वन्दन
कद्वारे
५ प्रतिपेधः
॥ ७३ ॥