SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे 11 06 11 ना नाशिकया वा निष्काशयति तथा मुखादग्नि निःसारयतीत्यादि तत्कुर्वन्नसौ चरणकुशीलो भवतीति द्रष्टव्यं, एवमुत्तरत्राऽपि, ज्यरितादीनामभिमन्त्रितरक्षाप्रदानं शय्यादीनां चतुर्दिशं भूतिकर्म विनिर्दिष्टम् ।। ११२ ॥ 'सुविणगे' त्यादि, केनापि स्वाभिमतं वस्तुपृष्टमपृष्टं वा स्वप्ने विद्यया जपिता कथितं 'आईख 'ति कर्णपिशाचिया घण्टिकादिभिर्वा मन्त्राभिषिक्ताभिः कथितं यत्कथ्यते अन्येषां प्रश्नाप्रश्नं भवत्येतन् ॥ ११३ ॥ 'तीयाई' त्यादि, अतीत वर्तमान भविष्यत्कालत्रयवर्तिलाभालाभादिभावकथनं भवति निमित्तं इदं तु वक्ष्यमाणमाजीव्यत इत्याजीवं जात्यादिसप्तविधं यथा कञ्चन भिल्लमालादिजातियमीश्वरं दृष्ट्वा ग्राहअहमपि मालादिजातयः स चैकजातिसम्बन्धानस्य भिक्षादानादिकां प्रतिपति करोति इति जात्युपजीवी, एवं वयं भवन्तश्चैक कुलशिल्पकर्मतपोगणवर्तिन इत्यादिवचनविरचनया कुलायाजोवी, आहारादिगृद्ध व तपःसूत्राभ्यासप्रकटनं कुर्वाणश्च तपः सूत्राजीवी, तत्र कुलं उग्रादिकं पितृसमुत्थं वा शिल्पंविज्ञानमाचार्यशिक्षाकृतं कर्म - स्वयंशिक्षितं "साचार्यकं शिल्पम् अनाचार्यकं कर्मे "ति वचनात् तपोऽनशमादिकं, गणो मल्लगणादिः, 'गुण' इति च पाटोऽशुद्ध इव लक्ष्यते निशीथादिभिर्व्यभिचारात्, सूत्रकालिकादि, आदिशब्दः स्वगतानेकभेदसंसूचकः ॥ ११४ ॥ कल्ककुरुका पुनः काऽभिधीयते इत्याह-- 'कक्ककुरुके 'ति माया, अत्रैव तात्पर्यमाह - निकृत्या - शाठयेन परेर्पा दम्भनं - वञ्चनमिति यदुक्तं भवति, अन्ये तु कल्ककुरुकाशब्दार्थमित्थमाचक्षते - यथा कल्को नाम प्रत्यादिपु रोगेषु क्षारपातनं अथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोघ्रादिभिरुद्वर्तनं, २ वन्दन ऋद्वारे ५ पास त्थादि स्वरूपं ॥ ७० ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy