SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोदारे गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किश्चिज्जल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः । एष देशाव सन्नः, उपलक्षणं चेदं, ततः स्खलितेषु मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न क- २ रोति संवरणादिषु बन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याद्यन्यदपि सा- कदा माचारीवितथाचरणं देशयावस्थतादिकारणमिति ।। १०८।। ५पा ___ अथ कुशीलमाह - 'तिविहो होईत्यादि, कुत्सितं शीलमस्येति कुशीलः, स त्रिविधो भवति- त्यादि ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो- वन्दनानईः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥१०९॥ स्वरूप तत्र ज्ञानकुशोलदर्शनकुशोलो लक्षणतः प्राह – 'नाणे' इत्यादि ज्ञानाचार-काले विशए' इत्यादिकमष्टप्रकारं यो विराधयति न सम्यगनुतिष्ठति स ज्ञाने--ज्ञानविषये कुशीलो भवति, दर्शनाचार 'निस्संकिय निक्कंखिय' इत्यादिक्रमष्टप्रकार यो विराधयति स दर्शने-दर्शनविषये कुशीलः, चरणकुशील: पुनरयं-वक्ष्यमागलाणो भवति ।।११०॥ तमेवाह-कोउय भूई'त्यादि दारगाहा, कौतुकभूतिकर्मणी प्रश्नाप्रश्नी निमित्तं आजीविका कल्ककुरुका चः समुच्चये लक्षणं विद्यामन्त्रादिकं च य उपजीवति स चरणकुशीलः ॥१११॥ ___ एतानि पदानि स्वयमेव व्याचष्टे-'सोहग्गाइनिमित्तं' इत्यादि, सौभाग्य-जनमान्यताऽपत्यादिनिमित्तं परेषां-योषिदादीनां त्रिकचतुष्कचत्वरादिषु विविधौषधीमिश्रितजलस्नानमृलिकावन्धनादि यत् क्रियते तत्कौतुकं भणितं, यद्वा कौतुकं नाम आश्चर्यम्, यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy