SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे ॥ ६१ ॥ 'विणओ' इत्यादि, विनयति विनाशयति सकलक्लेशकारकमष्टप्रकारमपि कर्म यः स विनयः स एवोपचार: आराधनाप्रकारो गुरोर्विनयोपचारः, तथा मानस्य - अहङ्कारस्य भञ्जना - विनाशः कृतो भवति, जात्यादिमदाध्माता हि न मन्यन्ते देवं न वन्दन्ते गुरून् नश्लाघन्ते परं वन्दनके च दीयमाने एवंविधानर्थनिबन्धनमभिमानो नाशितो भवतीति, अत एव गुरुपूजाऽप्येवं भावतः कृता भवति, तथा सकलकल्याणमूला तीर्थकराणामप्येवमाज्ञा परिपालिता भवति, यतो भगवद्भिर्विनयमूल एवं धर्मः प्रत्यपादि, तथा श्रुतधर्माराधना च कृता भवति, यतो वन्दनकपूर्वमेव श्रुतग्रहणं क्रियते तथा पारम्पर्येण वन्दन कादक्रिया भवति, ease: सिद्ध एव भवति, स च पारम्पर्येण वन्दनकलक्षणाद्विनयादेव सम्पद्यते, उक्तं च परमर्षिभिः"तहारूवं णं भंते! समणं वा माहणं वा वेदमाणस्स वा पज्जुवासमाणस्स चंदणा पज्जुवासणाय किंफला पन्नत्ता?, गोअमा ! सवणफला, सेणं सवणे किंफले पन्चने ?, गोअमा ! नाणफले, से णं नाणे किफले १, गोमा ! विणले, विनाणे पञ्चकखाणफले, पचक्खाणे संजमफले, संजमे अणण्यफले, अणहए तबफले, तवे बोदाणफले, बोदाणे अकिरियाफले, अकिरिया सिद्धिगडगमणफल" त्ति [तथारूपं भदन्त ! श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य वा वन्दना पर्युपासना च किंफला प्रज्ञप्ता, गौतम ! श्रवणफला, तत् श्रवणं किंफलं ?, गौतम ज्ञानफलं तत् ज्ञानं किंफलं १, गौतम ! विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं संयमोऽनाश्रवफलः अनाश्रवः तपःफलः तपो व्यवदानफलं व्यवदानमक्रियाफलं अक्रिया सिद्धिगतिगमनफला ] इत्यादि, तत्र 'अणण्हते' इति अनाश्रवो नवकर्मानादानमित्यर्थः, 'वोदाण' ति व्यवदान - विशुद्धिः पूर्वक्षपणमित्यर्थः ॥ १०० ॥ २ चन्दन कद्वारे ६ गुणाः ॥ ६१ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy