________________
प्रवचनसारोद्धारे
२ वन्दन कद्वारे ६ गुणाः
या, लोकोत्तराऽपि सचित्तादिभेदै स्त्रिविधा-शिष्याद्यनुज्ञा प्रथमा वस्त्रायनुज्ञा द्वितीया परिहितवस्त्रादिशिष्याद्यनुज्ञा तृतीया, एवं कुग्रायचनिक्यपि त्रेधाऽवगन्तव्या; क्षेत्रानुज्ञापना यावतः क्षेत्रस्यानुज्ञापन विधीयते यस्मिन क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा, एवं कालानुज्ञापनापि, भावानुज्ञापना आचाराद्यनुज्ञापना, एपा चात्र ग्राह्या । 'अव्यायाहंति न विद्यते व्याबाधा यत्र तदव्याचाधं वन्दनं, सा च व्याबाधा द्रव्यतो भावतश्च, नयनः सहगाभिमानकता, भारतो मिथ्यात्वादिकृता, सा द्विरूपाऽपि न विद्यते यत्रेति, एतच्च बहुसुभेण भे' इत्यादिना कथितं, 'जत्त'त्ति यात्रा द्विविधा-द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां मिथ्यादृशां स्वक्रियोत्सर्पणं भावतः साधूनामिति । 'जवणाय'त्ति यापनाऽपि द्विधा-द्रव्यतो भावतश्व, द्रव्यतः शर्कराद्राक्षादिसदोषधैः कायस्य समाहितत्वं, भावतस्तु इन्द्रियनोइन्द्रियोपशान्तत्वेन शरीरस्य समाहितत्वं । क्षामणाऽपि द्रव्यतो भावतश्च, द्रव्यतः कलुषाशयस्य इहलोकापायभीरोः भावतस्तु संविग्नचित्तस्य संसारभीगेरिसि, एवं षट् स्थानानि वन्दनके भवंति ॥ ९९॥
'छच्च गुण' ति द्वारमधुना, तत्र कश्चित्पृच्छति-को गुणोऽनेन वन्दनकेन दीयमानेन सम्पद्यते यदर्थमीदृशः क्लेशः क्रियते ? तत आह
विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स। तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥१०॥
me