________________
5
आचार्यश्रीहेमचन्द्रविरचिवा [अ० १, आ० १, सू० ३०-३२. इति; तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कायतोऽवगतिर्वक्तव्या। कार्य च ज्ञानम् न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरमिह पदमस्ति । संतां सम्प्रयोगइति च वरं निरालम्बनविज्ञाननिवृत्तये, 'सति' इति तु हमारा मान्दाइदाम् ।
६११३. येपि "तत्संप्रयोगे पुरुषस्थेन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्ष पविषयं ज्ञान तेनं सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयंझानमन्पसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।" [ शावरभाग १.१.५ ] इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनवद्यमित्याहुः, तेषामपि क्लिटकल्पनैव, संशयनानेन व्यभि
चारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव । यद्यपि चोभ10 यविषयं संशयनानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव उभयावमर्शित्वाच संशयस्य
येन संयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः। अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजवाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् ।
६११४. "श्रोत्रादिवृसिरविकल्पिका प्रत्यक्षम्" इति वृद्धसाव्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् १ । चेतनसंसर्गातचैत15 न्याभ्युपगमे वरं चित एवं प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पकत्वे प्रामाण्यमस्तीति
यत्किञ्चिदेतत् । __११५. "प्रतिविषयाध्यवसायो दृष्टेम्" [सांका०५] इति प्रत्यक्षलक्षणमितीश्वरकृष्णः । तदप्यनुमानेन व्यभिचारित्वादलक्षणम् । अथ 'प्रतिः' आभिमुख्य वर्तते तेनाभि
मुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते तदप्यनुमानेन तुल्यम् घटोऽयमितिवदय 20 पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ अनुमानादिविलक्षणो अभिमुखोऽध्यवसाय: प्रत्यक्षम् ; तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तसिद्धेः ।
११६. ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव 'विशदः प्रत्यक्षम्' इति प्रत्यक्षलक्षणमनवद्यम् ।। २९ ।।
६११७. प्रमाणविषयफलप्रमातृरूपेषु चतुर्यु विधि तत्वं परिसमाप्यत इति विषया25 दिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयति
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३०॥ ६११८. प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये 'प्रमाणस्य इति प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहेव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थमे । जातिनिर्देशाच प्रमाणानां प्रत्यक्षादीनां 'विषयः गोचरो 'द्रव्यपर्यायात्मकं वस्तु' । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं धौव्यलक्षणम् ।
१सता सम्प्र-सा. डे। २ तेनैव सम्प्र० -मु-पा० १ ३ तत्सर्वतोन्य०-ऐ. 1 ...कल्पस्वे--डे । ५ दृष्टमति प्रल-ता. । ६ विधेषु इत्यपि पठितुं शक्ये तान् प्रती 10 ..मश्रजाति-डे ।