________________
सांव्यवहारिकप्रत्यक्षम् । प्रमाणमीमांसा। ६ ९६. 'अवग्रहहावायधारमात्मा' इत्युक्तीमत्ववाहादीलक्षयति
अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥ २६ ॥ $ ९७. 'अक्षम्' इन्द्रियं द्रव्यभावरूपम्, 'अर्थः' द्रव्यपर्यायात्मा तयोः 'योगः सम्बन्धोऽनतिदूरासनव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविषपिणोः, यदाह,
"पुढे सुणेइ सई रूवं पुण पासए अपुढं तु ॥” [ आव• नि० ५ ] इत्यादि । तस्मिनक्षार्थयोगे सति 'दर्शनम्' अनुलिखितविशेषस्य वस्तुनः प्रतिपत्तिः । तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति परिणामितोक्ता, नबसत एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणाम प्रतिपद्यते । 'अर्थस्य' द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य 'ग्रहणम्', 'सम्यगनिर्णयः' इति 10 सामान्यलक्षणानुवृत्तेनिर्णयो न पुनरविकल्पकं दर्शनमात्रम् 'अवग्रहः ।
६९८. न चायं मानसो विकल्पः, चक्षुरादिसन्निधानापेक्षत्वात् प्रतिसङ्ग्यानेनाप्रत्याख्येयत्वाच । मानसो हि विकल्पः प्रतिसङ्ख्यानेन निरुध्यते, न चायं तथेति न विकल्पः ।। २६ ॥
अवगृहीतविशेषाकाङ्क्षणमीहा ॥ २७ ॥ १९९. अवग्रहगृहीतस्य शब्दादेरर्थस्य 'किमयं शब्दः साङ्खः शाङ्गो वा' इति संशये सति 'माधुर्यादयः शाङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्माः' इत्यन्वयव्यतिरेकरूपविशेषपर्यालोचनरूपा मतेश्चेष्टा 'इहा' । इह चावग्रहहयोरन्तराले अभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव आशुभावातु नोपलक्ष्यते । न तु प्रमाणम्, सम्यगर्थनिर्णयात्मक स्वाभावात् ।
20 $१००. ननु परोक्षप्रमाणभेदरूपमूहाख्यं प्रमाण वक्ष्यते तत्कस्तस्मादीहाया भेदः । उच्यते-त्रिकालगोचरः साध्यसाधनयोाप्तिग्रहणपटुरूहो यमाश्रित्य "व्याप्तिग्रहणकाले योगी सम्पचते प्रमाता" इति न्यायविदो बदन्ति । ईहा तु वार्त्तमानिकार्थविषया प्रत्यक्षप्रभेद इत्यपौनरुतयम् ।
६१०१. ईहा च यद्यपि येष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्ष- 25 भेदत्वमस्याः । न चानिर्णयरूपत्वादप्रमाणत्वमस्याः शङ्कनीयम् । स्वविषयनिर्णयरूपस्वाद , निर्णयान्तरासादृश्ये निर्णयान्तराणामप्यनिर्णयत्वग्रसङ्गः ॥२७॥
ईहितविशेषनिर्णयोऽवायः ॥ २८॥ १०२. ईहाक्रोडीकते वस्तुनि विशेषस्य 'शाङ्क्ष एवायं शब्दो न शा' इत्येवंरूपस्यावधारणम् 'अवायः ॥ २८ ।।
परिणामिककारणतोका-डे । २ बौद्धानामिव । ३ अनिराकार्यत्वात्। ४ विशद्धार्थचिन्तमेन । ५- विशेषका-डे । ६ शङ्क-डे । स्वविषये निर्णयलात्-डे ।