________________
AXMiDasical-trentistics
DiginYA
सांव्यवहारिकप्रत्यक्षम् । ] प्रमाणमीमांसा
६८७. स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलस्वादिन्द्रियत्वानुपपत्तिरिति चेत् । न; कारणधर्मस्य कार्येऽनुवृत्तेः । नहि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येन्द्रियत्वम् , तेनैव फलत्वमिप्यते येन विरोधः स्यात् । साधकतमस्वभावेन हि तस्येन्द्रियत्वं क्रियारूपतया च फलत्वम् । यथैव हि प्रदीपः प्रकाशात्मना प्रकाशयतीत्यत्र साधकतमः प्रकाशात्मा करणम् , 5 क्रियात्मा फलम्, स्वतन्त्रत्वाच्च कर्तेति सर्वमिदमनेकान्तवादे न दुर्लभमित्यल प्रसङ्गेना।२३।। ६.८८. 'मनोनिमित्तः' इत्युक्तमिति मनो लक्षयति
सर्वार्थग्रहणं मनः ॥२४॥ ६८९. सर्वे न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एवार्था गृह्यन्तेऽनेनेति 'सर्वार्थग्रहणं मनः' 'अनिन्द्रियम्' इति 'नोइन्द्रियम्' इति चोच्यते । सर्वार्थ मन 10 इत्युच्यमाने आत्मन्यपि प्रसङ्ग इति करणत्वप्रतिपादनाथं 'ग्रहणम्' इत्युक्तम् । आत्मा तु कति नातिब्याप्तिः, सर्वार्थग्रहणं च मनसः प्रसिद्धमेव । यत् वाचकमुख्यः "श्रुतमनिन्द्रियस्य ।" [तत्वा० २,२२ ] श्रुतमिति हि विषयिणा विषयस्य निर्देशः । उपलक्षणं च श्रुतं मतेः तेन मतिश्रुतयोर्यो विषयः स मनसो विषय इत्यर्थः । "मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" [ तत्त्वा० ५.२७ ] इति वाचकवचनान्मतिश्रुतज्ञानयोः सर्वविषयत्व 15 मिति मनसोऽपि सर्वविषयत्व सिद्धम् ।
६९०. मनोऽपि पैञ्चेन्द्रियवद् द्रव्यभावमेदात् द्विविधमेव। तत्र द्रव्यमनो मनस्त्वेन परिणतानि पुद्गलद्रव्याणि । भावमनस्तु तदावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्वार्थग्रहणोन्मुखो व्यापारविशेष इति ॥२४॥
६९१. नन्वत्यल्पमिदमुच्यते 'इन्द्रियमनोनिमित्तः' इति । अन्यदपि हि चक्षुज्ञानस्य 20 निमित्तमर्थ आलोकवास्ति, यदाहुः
"रूपालोकमनस्कारचतुर्यः सम्प्रैजायते ।
विज्ञानं मणिसूर्याशुगोशकृदुभ्य इवानलः ॥" इत्यत्राह
नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ ६९२. बाह्यो विषयः प्रकाशश्च न चक्षुर्ज्ञानस्य साक्षात्कारणम् , देशकालादिवतु व्यवहितकारणत्वं न निवार्यते, ज्ञानावरणादिक्षयोपशमसामयामारादुपकारित्वेनासनादिवश्चक्षुरुपकारित्वेन चाभ्युपगमात् । कुतः पुनः साक्षात्र कारणत्वमित्याह-'अच्यतिरेकात् व्यतिरेकाभावात् । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयानिमित्तम ,
१ निबन्धः सर्वद्रव्ये - तत्वा० । २ मनोपि चेन्द्रि-दे० । ३ संप्रवर्तते ।