________________
आचार्यश्री हेमचन्द्रविरचिता [अ० १ ० १ सू० २०-२१. ६७१. अथ सांव्यवहारिकमाह
इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम् ॥ २० ॥
३७२. इन्द्रियाणि स्पर्शनादीनि वक्ष्यमागलक्षणामि, मनन करणं पस्य तथा । सामान्यलक्षणानुवृत्तेः सम्यगर्थनिर्णयस्येदं विशेषणं तेन 'इन्द्रियमनोनिमित्तः ' 5 सम्यगर्थनिर्णयः । कारणमुक्त्वा स्वरूपमाह - 'अवग्रहेावायधारणात्मा' । अवग्रहादयो चक्ष्यमाणलक्षणाः त आत्मा यस्य सोऽवग्रहेहावायधारणात्मा । 'आत्म' ग्रहणं च क्रमेणोत्पद्यमानानामप्यवग्रहादीनां नात्यन्तिको मेदः किन्तु पूर्वपूर्वस्योत्तरोत्तररूपतया परिणामादेकात्मकत्वमिति प्रदर्शनार्थम् । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारस्तत्प्रयोजनं 'सांव्यवहारिकम् ' प्रत्यक्षम् । इन्द्रियमनोनिमित्तत्वं च समस्तं व्यस्तं व 10 बोद्धव्यम् । इन्द्रियप्राधान्यात् मनोबलाधानाश्चोत्पद्यमान इन्द्रियजः । मनस एव विशुद्धिसव्यपेक्षादुपजायमानो मनोनिमित्त इति ।
皇家
१७३. ननु स्वसंवेदनरूपमन्यदपि प्रत्यक्षमस्ति तत् कस्मानोक्तम् ? इति न वाच्यम् ; इन्द्रियैज्जज्ञानस्वसंवेदनस्येन्द्रियप्रत्यक्षे, अनिन्द्रियजसुखादिसंवेदनस्य मनःप्रत्यक्षे, योगिप्रत्यक्षस्वसंवेदनस्य योगिप्रत्यक्षेऽन्तर्भावात् । स्मृत्यादिस्वसंवेदनं तु मान16 समेवेति नापरं स्वसंवेदनं नाम प्रत्यक्षमस्तीति भेदेनं नोक्तम् ||२०||
७४. इन्द्रियेत्युक्तमितीन्द्रियाणि लक्षयति
स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदनि ॥ २१ ॥
६७५. स्पर्शादिग्रहणं लक्षणं येषां तानि यथासङ्ख्यं स्पर्शनादीनीन्द्रियाणि, तथाहि 20 स्पर्शाद्युपलब्धिः करणपूर्वा क्रियात्वात् छिदिक्रियावत् । तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि नामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गानि वा कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोऽथपलब्धौ निमित्तानि इन्द्रियाणि ।
६७६ नम्वेवमात्मनोऽर्थज्ञानमिन्द्रियात् लिङ्गादुपजायमानमानुमानिकं स्यात् । तथा लिङ्गापरिज्ञानेऽनुमानानुदयात् । तस्यानुमानात्परिज्ञानेऽनवस्थाप्रसङ्गः नैवम् ; भावे25 न्द्रियस्य स्वसंविदितत्वेनानवस्थानवकाशात् । यद्वा, इन्द्रस्यात्मनो लिङ्गान्यात्मगमकानि इन्द्रियाणि करणस्य वास्यादिवत्कर्त्रधिष्ठितत्वदर्शनात् ।
६७७, तानि च द्रव्यभावरूपेण भिद्यन्ते । तत्र द्रव्येन्द्रियाणि नामकर्मोदयनिमि
१ इन्द्रिया ०ता० । २ सुखादिख० मु० 1 ३ भेदेनोकम् - डे० मु० 1 इत्यन्तमेकं 'भेदानि' इत्यन्तं च अपरम् इति सूत्र -मू-प्रती दृश्यते ।
-
४ 'इन्द्रियाणि