SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ PadMAJ आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० १६. ६५५. प्रशाया अतिशयः - तारतम्य क्वचिद्विश्रान्तम् , अतिशयत्वात् , परिमाणातिशयवदित्यनुमानेन निरतिशयप्रज्ञासिद्धथा तस्य केवलज्ञानस्य सिद्धिः, तसिद्धिरूपत्वात् केवलज्ञानसिद्धेः । 'आदि'ग्रहणात सूक्ष्मान्तरितरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् पारितातो, मोलिज्ञानाविवादास्यथानुपपत्तेा तत्सिद्धिः, यदाह "धीरस्यन्तपरोक्षेऽर्थे न घेत् पुंसां कृतः पुनः । ज्योतिज्ञानाविसवादः श्रुताचेत् साधनान्तरम् ॥" [सिद्धित्रि पू० ४१३AI ६५६. अपि च-"नोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विमकृष्टमेवजातीयकमर्थमयगमयति नान्यत्किञ्चनेन्द्रियम्" - [ शाबर भा० १. १. २. ] 10 इति वदता भूताधर्थयरिज्ञानं कस्यचित् पुंसोऽभिमतमेव, अन्यथा कस्मै वेदखिकालविषय. मर्थं निवेदयेत् ? । स हि निवेदयंखिकालविषयतत्त्वज्ञमेवाधिकारिणमुपादत्ते, तदाह __ "त्रिकालविषयं तत्वं कस्मै वेदो निवेदयेत् । अक्षय्याधरणकान्ताद तथा नरः॥"सिद्धिवि० पृ. ४१४A] इति त्रिकालविषयवस्तुनिवेदनाऽन्यथानुपपत्तेरतीन्द्रियकवलज्ञानसिद्धिः । 15६५७. किच, प्रत्यक्षानुमानसिद्धसंवादं शाखमेवातीन्द्रियार्थदर्शिसद्भावे प्रमाणम् । य एव हि शास्त्रस्य विषयः स्याद्वादः स एव प्रत्यक्षादेरपीति संवादः, तथाहि "सर्वमस्ति स्वरूपेण पररूपेण नास्ति । अन्यथा सर्वसत्वं स्यात् स्वरूपस्याप्यसम्भवः ॥" इति दिशा प्रमाणसिद्धं स्याद्वाद प्रतिपादयनागमोऽर्हतस्सर्वज्ञतामपि प्रतिपादयति, 20 यदस्तुम "यदीयसम्यक्त्वपलात् प्रतीमो भवादृशानां परमात्मभाषम् । कुषासनापाशाविनाशनाय नमोऽस्तु तस्मै तव शासनाय ।" [अयोग० २१] इति । प्रत्यक्षं तु यद्यप्यन्द्रियि(य)कं नातीन्द्रियज्ञानविषयं तथापि समाधियललब्धजन्मक 25 योगिप्रत्यक्षमेव बाह्यार्थस्येव स्वस्यापि वेदकमिति प्रत्यक्षतोऽपि तसिद्धिः। ६५८. अथ "ज्ञानमतिधं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥” इति वचनात्सर्वज्ञत्वमीश्वरादीनामस्तु मानुषस्य तु कस्यचिद्विद्याचरणवतोपि तदसम्भाव30 नीयम् , यत्कुमारिल:-- "मथापि वेददेहस्वाद ब्रह्मविष्णुमहेश्वराः। कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ।।" [ लवर्स का० ३३०८] १-जन्मायोगि० -हे. मुं० १ २ अप्रतिघातम् ।
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy