________________
आचार्यामीहेमचन्द्रविरथिता [अ० १, आ० १,२० १४-१६. धम्मिणो हेतुत्वेऽनन्वयदोष इति चेत् । न विशेष धर्मिणि धमिसामान्यस्य हेतुत्वात् । तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृतिमन्तरेणापि च विपक्षल्यासिबलाद्गमकत्वमित्युक्तमेव ॥१३॥
४५. अथ किमिदं वैशचं नाम ? । यदि स्वविषयग्रहणम् । तत् परोक्षेप्यषणम्। अथ । स्फुटत्वम् तदपि स्वसंविदितत्वात् सर्वविज्ञानानां सममित्यावस्क्याह
प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशयम् ॥१४॥ 5 ४६. प्रस्तुतात् प्रमाणाद् यदन्यत् प्रमाणं शब्दलिङ्गादिशानं तत् प्रमाणान्तरं तमिरपेक्षता 'वैशधम् । नहि शाब्दानुमानादिवत् प्रत्यक्षं स्थोत्पत्तौ शब्दलिङ्गादिशानं प्रमाणा
न्तरमपेक्षते इत्येकं वैशवलक्षणम् । लक्षणान्तरमपि 'इदन्तया प्रतिभासो वा' इति, 10 इदन्तया विशेषनिष्टतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि 'वैशधम्' । 'वा'शब्दोलक्षणान्तरत्वसूचनार्थः ॥१४॥
६४७. अथ मुख्यसांव्यवहारिकमेदेन द्वैविध्यं प्रत्यक्षस्य हदि निधाय मुख्यस्य लक्षणमाह
तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्य केवलम् ॥१५॥ 15६४८. 'तत्' इति प्रत्यक्षपरामर्शार्थम्, अन्यथानन्तरमेव वैशयमभिसम्बध्येत । दीर्घ
कालनिरन्तरसंस्कागसेवितरसत्रयप्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निःशेषतया ज्ञानावरणादीनां घासिकर्मणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वमावस्येति यावत् स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेन 'आविभोवः' आविभूतं स्वरूप
मुखमिव शरीरस्य सर्वज्ञानानां प्रधानं 'मुख्यम्' प्रत्यक्षम् । तश्चेन्द्रियादिसाहायकविरहात् 20 सकलविषयत्वादसाधारणत्वाच 'कवलम्' इत्यागमे प्रसिद्धम् ।।
४९. प्रकाशस्वभावता कथमात्मनः सिद्धेति चेत्, एते बमः-आत्मा प्रकाशस्वभावः, असन्दिग्धस्वभावस्वात, यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वमावो यथा घटः, न च तथात्मा, न खलु कश्चिदहमस्मि न वेति सन्दिग्धे इति नासिद्धो हेतुः । तथा,
आत्मा प्रकाशस्वभावः, बोदृस्वात, यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटा, 25 न च न बोद्धात्मेति । तथा, यो यस्याः क्रियायाः कर्चा न स तद्विषयो यथा गतिक्रियायाः कर्ता चैत्रो न तद्विषयः, ञप्तिक्रियायाः कर्ता चात्मेति ।
६५०. अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् ?, आवरणे वा सततावरणप्रसाः, नैवम् प्रकाशस्वभावस्यापि चन्द्राकोदेखि रजोनीहाराम्रपटलादिमिरिव शाना
१ --कुंक् कान्हे-गण-II 26, 27,28। उणादौ स्थानुसोरूम [१४५] इति षणमपराधः । २ शब्दानुढे । ३ प्रत्यक्षस्य परा-डे । ४ बहुमान । ५.झानावरणीयावीनाम्-है. !