________________
आचार्यश्री चन्द्रविरचिता [अ० १, आ० १ सू० १२.
प्रमाणेतर व्यवस्थापयेत् । न च सन्निहितार्थचलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरका भाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न चार्य स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति ग्रामाण्यमग्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां 5 प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरसुपासीत ।
६३४. अपि च [अ]प्रतिपित्सितमर्थं प्रतिपादयन् 'नाये लौकिको न परीक्षकः ' इत्युन्मत्तवदुपेक्षणीयः स्यात् । न च प्रत्यक्षेण परचेतोवृत्तीनामधिगमोस्ति । चेाविशेषदर्शerreart च परोक्षस्य प्रामाण्यमनिच्छतोऽप्यायातम् ।
३५. परलोकादिनिषेध न प्रत्यक्षमात्रेण शक्यः कर्तुम्, सन्निहितमात्रविषयत्वात्तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखमस्ते प्रमाणान्तरं च नेच्छतीति डिम्भवाः ।
10
६३६. किश्व, प्रत्यक्षस्याप्यर्थाव्यभिचारादेव प्रामाण्यं तचार्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मतः परोक्षस्याप्यव्यभिचारादेव किं नेष्यते ? व्यभिचारिणोषि परोक्षस्य 15 दर्शनादप्रामाण्यमिति चेत्; प्रत्यक्षस्यापि तिमिरादिदोषादप्रमाणस्य दर्शनात् सर्वत्राप्रामाप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत्; इतरत्रापि तुल्यमेतदन्यत्र पक्षपातात् । धर्मकीर्तिरयेतदाह
८
“प्रमाणेतर सामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसङ्गावः प्रतिषेधाश्च कस्याचेत् ॥ १ ॥ अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं दयम्" ॥ २ ॥ इति । ६३७. यथोक्तसङ्ख्यायोगेऽपि च परोक्षार्थविषयमनुमानमेव सौगतैरुपगम्यतेः तदयुक्तम्: शब्दादीनामपि प्रमाणत्वात् तेषां चानुमानेऽन्तर्भावयितुमशक्यत्वात् । एकेन तु सर्व साहिणा प्रमाणेन प्रमाणान्तरसङ्घहे नायं दोषः । तत्र यथा इन्द्रियजमानसात्मसंवेदन25 योगज्ञानानां प्रत्यक्षेण सङ्ग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षेण सहो लक्षणस्याविशेषात् । स्मृत्यादीनां च विशेषलक्षणानि स्वस्थान एव वक्ष्यन्ते । एवं परोअस्योपमानस्य प्रत्यभिज्ञाने, अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते ।। ११ ।।
६३८. यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन वहिर्भूतेन वा किञ्चित प्रयोजनम्, यथा अभावः । कथमस्याप्रामाण्यम् ? निर्विषयत्वात् इति ब्रूमः । तदेव कथम् ? इति चेत्भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥
$ ३९. नहि भावैकरूपं वस्त्यस्ति विश्वस्य वैश्वरूप्यप्रसङ्गात्, नाप्यभावैकरूपं नीरू
१ नास्ते० - ० । २ इत्यत्रा०डे० । ३० भावा०डे० ।
20
30