________________
EERA
MAAR
आचार्यश्रीहेमचन्द्रविरचिता [अ० ५, आ० १, सू०८-११. प्रामाण्यनिश्चयः स्वतः परतो वा ॥ ८॥ ६२२. प्रामाण्यनिश्चयः क्वचित् स्वतः यथाऽभ्यासदशापने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञान नहि तत्र परीक्षाका
शास्ति प्रेक्षावताम् , तथाहि-जलज्ञानम् , ततो दाहपिपासातस्य तत्र प्रवृत्तिः, ततस्तर प्राप्तिः, ततः स्नानपानादीनि, ततो दाहोदन्योपशम इत्येतायतैव भवति कृती प्रमाता न
पुनर्दाहोदन्योपशमज्ञानमपि परीक्षने इत्यस्य स्वतः प्रामाण्यम् । अनुमाने तु सर्वस्मिनपि सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एवं प्रामाण्यम् , अव्यभिचारिलिङ्गसमुत्थत्वात् । न लिङ्गाकारं ज्ञानं लिङ्गं विना, न च लिङ्ग लिङ्गिनं विनेति ।
२३. क्वचित परतः प्रामाण्यनिश्चयः, यथा अनभ्यासदशापन्ने प्रत्यक्षे । नहि तत् 10 अथेन गृहीताव्यभिचारमिति तदेकविषयात् संवादकात् ज्ञानान्तराद्वा, अर्थक्रियानि -
सावा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते। तेषां च स्वतः प्रामाण्यनिश्चयान्नानवस्थादिदौस्थ्यावकाशः ।।
६२४. शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दु नत्वात् संवादाद्यधीनः परतः प्रामाण्यनिश्चयः; अदृष्टार्थे तु दृष्टार्थग्रहोपराग-नष्ट-मुष्टयादिप्रतिपादकानां संवादेन 15 प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्सोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् ।
६२५. "अर्थोपलब्धिहेतुः प्रमाणम्” इति नैयायिकाः । तत्रार्थोक्लब्धौ हेतुत्वं यदि निमित्तत्वमात्रम् । तदा तत् सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कलेकमादिविलक्षणं करण हेतुशब्देन विवक्षितम् । तर्हि तत् ज्ञानमेव युक्त नेन्द्रिय
सनिक(दि. यस्मिन् हि सत्यर्थ उपलब्धो भवति से तत्करणम् । न च इन्द्रियसभिकर्ष20 सामन्यादौ सत्यपि ज्ञानाभावे मैं भवति, साधकतमं हि करणमव्यवाहितफलं च तदिष्यते,
व्यवहितफलस्यापि करणत्वे दधिभोजनादेरपि तथाप्रसङ्गः । तन्न ज्ञानादन्यत्र प्रमाणत्वम् , अन्यत्रोपचारात् ।
१२६. "सम्यगनुभवसाधनं प्रमाणम्" [ न्यायसा• पृ. ५ ] इत्यत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति, तथाप्यच्यवहितफलत्वेन 25 साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनेष्टव्यम् ।
६२७. "प्रमाणमविसंवादि ज्ञानम्" [ प्रमाणया० २. १ ] इति सौगताः। तत्रापि यद्यविकल्पकं ज्ञानम्। तदा न तद् व्यवहारजननसमर्थम् । सांव्यवहारिकस्य चैतत् प्रमाणस्य लक्षणमिति च भवन्तः, तत्कथं तस्यं प्रामाण्यम् ? उत्तरकालभाघिनो व्यवहारजननसमर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः, वरं च व्यवहारहेतोविकल्पस्यैव
१ लिनग्रहणपरिणामि । २ तदेकदेशविष...डे. । ३ नदेकविषयसंवादकज्ञानान्नरादीनाम् । ४ वायानाम् । ५ स - ज्ञानलक्ष गोऽर्थः । तस्योपलरुषत्वकारणम् । ७ अपिलम्भः । = गंगतो व्यवहारः प्रयोजनमस्येति। विकल्पकस्य ।