________________
Muline
KA
p
ni
..........
.
marati'.'...
'
Katha......
.
.
.."
प्रमाणपरीक्षा।]
प्रमाणमीमांसा १६१६. स्मृतेश्च प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सतत्वम् । वैरपि स्मृतैरप्रामाण्यमिष्टं तैरप्यर्थीदनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम् , यदाह--
" स्मृतरप्रमागरम गरीनयाहिताकतम् ।
____ अपि स्वनर्थजन्यत्वं तमामाण्यकारणम्” न्यायम • पृ० : इति ॥ ४ ॥ ६ १७. अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह
अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥ ५॥ १६१८. अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेन इवात्मा पस्मिन् सति स संशयः, यथा अन्धकारे दूरादूर्धाकारवस्तूपलम्भान साधकबाधकप्रमाणाभावे सति 'स्थाणुवा पुरुषो वा' इति प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयको- 10 टिसंस्पर्शऽपि संशयत्वनिराकरणार्थम्, यथा 'अस्ति च नास्ति च घटः', 'नित्यश्चानित्यधारमा' इत्यादि ॥ ५॥
विशेषानुल्लेख्यनध्यवसायः ॥ ६ ॥ ६१९, दुरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययः अनिश्चयात्मकत्वात् अनध्यवसायः, यथा 'किमेतत्' इति । यदप्यविकल्पकं प्रथमक्षणभावि परेषां प्रत्यक्ष- 15 प्रमाणत्वेनाभिमनं तदप्यनध्यवसाय एक, विशेषोल्लेखस्य तत्राप्यभावादिति ॥ ६ ॥
अतस्मिंस्तदेवेति विपर्ययः॥ ७ ॥ ६२०. यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि 'तदेव' इति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः, यथा धातुवैषम्यान्मधुरादिषु द्रव्येषु तिक्तादिप्रत्ययः, तिमिरादिदोषात् एकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः, नौयानात् अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, आशुभ्र- 20 मणात अलातादावचक्रेऽपि चक्रप्रत्यय इति । अवसितं प्रमाणलक्षणम् ।। ७ ।।
६२१, ननु अस्तूक्तलक्षण प्रमाणम् । तत्प्रामाण्यं तु स्वतः, परतो वा निश्चीयेत? न तावत् स्वतः तद्धि श्व(स्व संविदितत्वात् ज्ञानमित्येव गृह्णीयात्, न पुनः सम्यक्त्वलक्षणं प्रामाण्यम् , ज्ञानत्यमात्र तु प्रमाणाभाससाधारणम् । अपि च स्वताप्रामाण्ये सर्वेषामविप्रतिषतिप्रसङ्गः । नापि परता; परं हि तैदोचरगोचर वा ज्ञानम् अभ्युपेयेत, अर्थक्रियानिसिं वा, 2 तिद्गोचरनान्तरीयकार्थदर्शन वा ? तच्च सर्व स्वतोऽनवकृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्व प्रवर्तकं ज्ञान व्यवस्थापयेत् ? स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य येन तस्यापि तम्भ स्यात् । न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव, परतस्त्वनवस्थेत्याशङ्कयाह--
१ स्वरूपम् । २ उभवेन्युपलक्षणम् आ(श्यादिकोटि स्पर्शेऽपि संवायस्य सद्भावात् । ३ ... टिसंस्पत-डे । ५- दिव्य ०-३०। ५ दरमुकादी। ६ प्रमाणम् । तद संविढे० । ७ तस्य प्रथमज्ञानस्य गोचसे विषयो जलादिः, स गोचरो अस्य द्वितीयज्ञानम्म। तस्य सानस्य गोचरोऽन्यादिस्तदन्निनाभूतो धूमादिः । ९ पूर्वप्रवर्तकज्ञाने-2.। १० तत्-स्वतः प्रामाण्यम् ।