________________
भावीन्द्रगिरनिता [अ० १, आ० १, सू० ६. इत्यर्थः । अनेन शब्दानुशासनादिमिरेस्यैककर्तकत्वमाह । अधिकारार्थस्य च अथ-शब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति । मङ्गले च सति परिपन्थिविनविघातात अक्षेपेण शाखसिद्धिः, आयुष्मंयोतकता च भवति ।
परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लापवार्थिनों सूत्रकारेणेति । 5 ५. प्रकर्षण संशोदिथ्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत् प्रमाण प्र.
मायां साधकतमन् , तस्य मीमांसा -उद्देशादिरूपेण पर्यालोचनम् । त्रयी हि शास्त्रस्य प्रचत्तिः-उद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीर्तनमुद्देशः, यथा इदमेव सूत्रम् । उद्दिष्टम्यासाधारणधर्मवचनं लक्षणम् । तद् द्वेधा सामान्यलक्षणं विशेषलक्षणं च । सामान्य
लक्षणमनन्तरमेव सूत्रम् । विशेषलक्षणम् "विशदः प्रत्यक्षम्" [१.१.१३] इति । विभा10 गस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्य 'इदमित्थं भवति नेत्थम्' इति न्यायतः परीक्षणं परीक्षा, यथा नृतीय सूत्रम् ।
६६. पूजितविचारवचनश्च मीमांसा-शब्दः । तेन न प्रमाणमात्रस्यैव विचारोवाधिकृतः, किन्तु तदेकदेशभृतानां दुर्नवनिराकरणद्वारेण परिशोधितमार्गाणां नयानामपि-"प्र
माणनयैरधिगमः" नित्वा० १.६.] इति हि वाचकमुख्यः, सकलपुरुषार्थेषु मुद्धाभिषिक्तस्य 15 सोपार्यस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्र
विचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाकलहमानं स्यात् । तद्विवक्षायां तु "अष प्रमाणपरीक्षा" [प्रमाणपरी० पृ. १] इत्येव क्रियेत । तत् स्थितमेतत्-प्रमाणनयपरिशोधितप्रमेयमार्ग सोपायं सप्रतिपक्षं मोक्ष विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥१॥ ७. तत्र प्रमाणसामान्यलक्षणमाह
सम्यगर्थनिर्णयः प्रमाणम् ॥ २॥ ६.८. प्रमाणम् इति लक्ष्यनिर्देशः, शेष लक्षणम् , प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धम्मि प्रसिद्धं तस्य सम्यगर्थनिर्णयात्मकत्वं धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । न च धम्मिणो हेतुत्वमनुपपत्रम् ; भवति
हि विशेषे धम्मिणि तत्सामान्यं हेतुः, यथा अयं धूमः सानिः, धूमत्वात् , पूर्वोपलब्ध25 धूमवत् । न च दृष्टान्तमन्तरेण न गमकत्वम् । अन्तर्व्याप्यैव माध्यसिद्धेः, 'मात्मक जीवच्छरीरम् , प्राणादिमस्यात्' इत्यादिवदिति दर्शयिष्यते ।
१ अस्य-शास्त्रस्य । २आयुग्मा श्रीनागेऽस्मिन । ३ आदेः स्तुति-नामसङ्गीतने । ४-०थिंना शास्त्रका. डे • मु.। ५ आदिग्रहणात् विपर्यवानभ्यदमायौ। ६ सङ्घद्वारेण भेदकथनं विभागः, यथा “प्रमाणं वैधा। प्रत्यक्षं परोक्ष च ।" [१.१.२. 1015 -स्तु लक्ष-ता। ८ अङ्गम्-अवयवः कारणमिति यावत् । ९-०तीयस०-३।१० परियोषितः प्रमाणानां मार्गोऽनेकान्तात्मक वस्तु वः। ११ अधिगमाय शास्त्रस्य प्रवृत्तिने वाकलाप । १२ ज्ञानदर्शनचारित्ररूपोपायमाहितम् । १३ प्रतिपक्ष: संसारः । १४ पथा अकल ट्रेन (१)[इय टिप्पणकारस्थ भ्रास्तिः मूलादायत्ता भासि। वस्तुतःप्रमाणपरीक्षा अकलङ्ककृता किन्तु विद्यानन्दकृता -सम्पा १५अनेकान्तात्मकरस्तुसपो माग यस्य मोक्षस्य। १६ व्यकिपे धर्मिणि, तथा विवादाध्यासित घटप्रत्यक्ष सम्यगर्थनिर्णयात्मकम् , प्रत्यक्षत्वादिति । १७ “न दृष्टान्तोऽनुमानानम्" [१. २. १८] इति सूत्रे ।