SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भूमिका नाथत्वलक्ष्मीमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोशमुपेयिवांसस्तान् मानुषत्वादिसाषारणधर्मोपदेशेनापवदन् सुमेहमपि लेष्टवादिना साधारणीकर्तुं पार्थिवत्वेनापवदेः ! । किश, अनवरतवनिताअसम्भोगदुर्ललितवृत्तीना विविधहेतिसमूहधारिमामक्षमालाथायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुती "मदेन मानेत मनोभवेन, क्रोधेन लोमेन ससम्मदेन । पराजितानां प्रसमं सुराणा, पृथैव साम्राज्यरुजा परेषा । (पृ०१२-१३) एकमेव विरोधिसम्प्रदायान्तरप्रधानतमपुरुषापवर्षप्रतिपादकप्रबन्धाः कुमारिलमालाशान्तरक्षितप्रभृतिभिस्तक्षसम्प्रदायपरमाचाथैरपि स्वस्वरचितेषु दार्शनिकग्रन्थेषु लिखिताः समुपलभ्यन्ते शतशः प्रधाः; तथाहि--- बुद्धसर्वज्ञतानिराकरणप्रस्तावे श्लोकवार्तिके स्वयमेवोक्तं श्रीमद्धिः कुमारिलभ है: "नचापि स्मृत्यविच्छेदात् सर्वज्ञः परिकस्यते । विगानाच्छिन्नमूलस्वात् कैश्चिदेव परिग्रहात् ५५ विस्तरभयात् अन्येषामपि सम्प्रदायाचार्याणामेताइशभाषणानि आकरेषु सहस्रशः समुपलभ्यमानानि नात्रोदाहृतानि । तदस्या "प्रमाणमीमांसायां" परमतनिराकरणनिर्वन्वातिशयद्योतिका पाकनी शैली फुटवर प्रतीयमानापि शारदपौर्णमासीसुधाकरे समुभासितकलङ्करेखेव उदारमतिमिः शिवः सोदम्या भवतु मा वा नैतावता गया न्यस्य महाप्रयोजन केनापि प्रत्याख्यातूं शक्यते । अत्र च आहेतसिद्धान्तानां सुनिपुणदार्शनिकप्रणाच्या यथा सूक्ष्मतया संक्षिप्ततया च विश्लेषणं विहित तथा अन्यत्र दुरवापमिति हि निर्विप्रतिपतिकः प्रेक्षावता निर्णयः । तदनुसारेणैव च काशीहिन्दविश्वविद्यालयीय प्राच्यविद्या विभागान्तर्गतजैनदर्शनशासप्रधानाध्यापकेन दार्शनिकपवरेण पण्डितप्रकाण्डेन श्रीमता सुखलालजैनमहोदयेन हिन्दीभाषामयीमे का मनोरमा विवृति रिचय तया सह "प्रमाणमीमांसा" मुद्रणेन प्रकाश नीता । अस्यां वितौ श्रीमता जैनमहोदयेन प्रमाणमीमांसायामालोचिताना सिद्धान्तानां सम्यकपरिचयोपयोगिनो बहवो दार्शनिका ऐतिहासिकाश्च ज्ञातव्या विषयाः समवतारिताः, तान् विलोक्य सजातो मे नितरां सन्तोषः । जैनाभ्युपगतसर्वज्ञतावादाद बौद्धाभिमतसर्वज्ञतावादस्य लक्षण्यं तथा चौद्धजैनाभ्युपगतसर्वज्ञतावादतो नैयायिकवेदान्तिमीमांसकाभिमतसर्वज्ञतावादानां सारूप्यं वैरूप्यं च इत्येवमादेनिर्णय. प्रसोन श्रीमता सुखलालजैनमहोदयेन यो विचारपूर्वकनिष्कर्षः प्रदर्शितस्तेनास्य विचारशैली, ऐतिहासिकता, कल्पनाकुशलता च सर्वथा सहृदयानां प्रेशावतां मनांसि सन्तोषयिष्यति एवेति में सुहढो विश्वासः । एतादृशहिन्दीभाषामयविवृत्या सह जैन सिद्धान्तमन्थमून्यां जैनाचार्यहेमचन्द्रविरचितां प्रमाणमीमांसां विशुद्धतया सर्वसौष्ठवोपेततया च 'मुदापयित्वा प्रकाशयता पण्डितवर्येण श्रीमता सुखलालजैनमहोदयेन जैनदर्शनतत्त्वबुभुत्सूनां सहृदयानां कृतो महानुपकार इति सर्वथायं धन्यपादमस्तीति सविनयं निवेदयलि श्रीप्रमथनाथवर्कभूषणशर्मा।
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy