________________
MANTRA
MAHARiddline
निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । सिद्धत्वव्यवच्छेदार्थम् ; तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानाया अपि प्रतिज्ञायाः, प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थं निगमनस्य वचनं किं न स्यात् ? । नहि प्रतिज्ञादीनामेकार्थत्योपदर्शनमन्तरेण सङ्गतत्वं घटते, मिनविषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात् , अन्यथा नास्याः साधनाङ्गतेति चेत्, तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः । स्यात् , अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोर्व्याप्तिप्रदर्शनार्थत्वात् नानर्थको दृष्टान्तः, तत्र तदप्रदर्शने हेतोरगमकत्वात् । इत्यध्ययुक्तम् , सर्वानित्यत्यसाधने सच्चादेदृष्टान्तासम्भवतोऽगमकत्वानुषशाद । विपक्षव्याच्या सत्वादेर्गमकत्वे या सर्वत्रापि हेतौ तथैव ममकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एवं स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिक्षा प्रतिक्षिपेत् । । तस्याश्यानभिधाने क हेतुः साध्यं वा 10 वर्तते १ । गम्यमाने प्रतिज्ञाविषय एवेति चेत् ; तहिं गम्यमानस्यैव हेतोरपि समर्थनं स्थान तुक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्यर्थ वचनम् । तथा प्रतिज्ञावचने कोऽपरितोषः ।
६१०७. यश्चेदमसाधनाङ्गमित्यस्य व्याख्यानान्तरम्-साधर्येण हेतोर्वचने वैधHवचनम् , वैधयेण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गम् ; 15 इत्यप्यसाम्प्रतम् . यतः सम्यक्साधनसामर्थेन स्वपक्षं साधयतो वादिनो निग्रहः स्यात् , असाधयतो वा । प्रथमपक्षे न साध्यास प्रतिबन्धिवचनाधिक्योपालम्भमात्रेपास्य निग्रहः, अविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात् सत्यमेतत, स्वसाध्यं प्रसाध्य मृत्यतोऽपि दोषाभावाश्लोकवत् , अन्यथा ताम्बूलभक्षणभ्रक्षेप-खादकृत-हस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ 20 स्वपक्षमप्रसाधयतोऽस्य ततो निग्रहः। नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येत, असाधिते वा ? | प्रथमपक्षे स्वपक्षसियैवास्य निग्रहावचनाधिक्योडायनमनर्थकम् , तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात, स्वपक्षसिद्धेरभावाविशेषात् ।
25 __१०८. ननु न स्वपक्षसियासिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यम् , दूषणवादिना च दूषणम् । तत्र सौधर्म्यवचनाद्वैधर्म्यवचनाद्वाऽर्थस्य.प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योडावनात् साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दपणज्ञाननिर्णयाजयः स्यात् । इत्यप्यविचारितरमणीयम् , यतः स प्रतिवादी सत्साधन- 80 वादिनः साधनाभासवादिनो वा वचनाधिक्यदोषमुद्भावयेत् । तत्राद्यपक्षे वादिनः कथं साधुसाधनाज्ञानम् , तद्वचनेयताज्ञानस्यैवाभावात् ।। द्वितीयपक्षे तु न प्रतिवादिनो दूषणज्ञानमष्ठिते साधनाभासस्यानुद्भावनात् । तद्वचनाधिक्यदोषस्य ज्ञानात् दुषणलो
२.कार्थप्रतिप्रद -मु । काप्रतिज्ञाप्रद० - डे०१२ साधर्म्यवचनाद्वार्थस्य - हे । ३- तदन. ...