________________
TARA......52-60dnManan
intHinition
arietisatanA
PURAHMACARKARKamichestinatmanirinaa.bativi००:०० ... .......................
निग्रहस्थानस्य निरूपणम् । प्रमाणमीमांसा ।
$ ८१. यदि पुनः पदनैरर्थक्यमेव वाक्यनरर्थक्यं पढसमुदायात्मकत्वात् तस्य; तर्हि वर्णनरर्थक्यमेव पदनरर्थक्यं स्यात् वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निरर्थकत्वात् पदस्यापि तत्प्रसङ्गन्धेत : तर्हि पदस्थापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थक्यानुषङ्गः । पदस्यार्थवत्वेन(वचे चपदार्थापेक्षया; [वार्थापेक्षया] वर्णस्यापि तदैस्तु प्रकृतिप्रत्ययादिवत: न खलु प्रकृतिः केवला पदं प्रत्ययो वा । नाप्यनयोर- 5 नर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्ये; पदस्यापि तत् स्यात् । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात् तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगेस्पायन्तपदार्थस्य त्याद्यन्तपदार्थस्य चे स्त्याद्यन्तपदेनाभिव्यक्त केवलस्याप्रयोगः । पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य समानमिति ९ ।
10 ९०. प्रतिज्ञाहेतृदाहरणोपनयनिगमनवचनक्रममुल्लङ्घयावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यत्वात् । एतदप्यपेशलम् , प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियम विनाप्यर्थप्रतिपत्युपलम्भात् । ननु यथापशब्दाच्छ्रुताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यययवव्युत्क्रमात तत्क्रमस्मरणं ततो वाक्या- 15 र्थप्रत्ययो न पुनस्तधुरक्रमात इत्ययसारम, एवंविधप्रतात्यभावात् । यस्माद्धि शब्दादुश्चरितात् यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्यः, अन्यथा शब्दात्तत्क्रमाचापशब्द तव्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानयर्थ्यमिति चेत्, नैवम् , बौदिनोऽनिष्टमात्रापादनात अपशब्देऽपि चान्वाख्यानस्योपलम्भात् । संस्कृताच्छन्दासत्यात् धर्मोऽन्यस्मादधर्म इसि नियमे चान्यधर्मा- 20 धर्मोपायानुष्ठानवैयध्य धर्माधर्मयोश्वाप्रतिनियमप्रसङ्गः, अधार्मिके च धार्मिके च तच्छब्दोपलम्भात् । भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तभिरर्थकं न त्वप्राप्तकालमिति १० ॥
६९१. पश्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धेरभावात, प्रतिज्ञादीनां च पश्चानामपि साध- 25 नलात् । इत्यप्यसमीचीनम् , पश्चावयवप्रयोगमन्तरेणापि साध्यसिद्धरभिधानात् प्रतिज्ञाहेतुप्रयोगमन्तरेणैव तसिद्धेरभावात् । अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ ।
९२. एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा यदतोऽधिकं नाम निग्रहस्थानं भवति निष्प्रयोजनाभिधानात्। एतदप्ययुक्तम् , तथा
१ दश दाडिमानि षडपूपा इत्यत्र तु पदानामेव भैरर्थक्यम् न वाक्यस्य कियाया अश्रावणस्वात् (अश्रवणात)।२-०क्षया तस्यापि-दे।३ अर्थवत्वम् । ४ प्रकृतिप्रत्यययोः। ५च स्तूपद्यन्त - सा।
यथापि शब्दा, -डे कमवादिनः सत्याधर्मो-डे-हअधार्मिके धार्मिक... ।