________________
निग्रहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । सर्वगतमसर्वगतस्तु शब्द इति । सोऽयम् 'अनित्यः शब्दः' इति पूर्वप्रतिज्ञातः प्रतिज्ञान्तरम् 'असर्वगतः शब्दः' इति कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । एतदपि प्रतिज्ञाहानिवन्न युक्तम् , तस्याप्यनेकनिमित्तत्वोपपत्तेः। प्रतिज्ञाहानितश्चास्य कथं भेदः, पक्षत्यागस्योभयत्राविशेषात् ? । यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टान्तेऽभ्यनुज्ञानात् पक्षत्यागस्तथा प्रतिज्ञान्तरादपि । यथा च स्वपक्षसिद्धयर्थं प्रतिज्ञान्तरं विधीयते तथा शब्दानित्यवसि-6 धर्थ प्रान्तियशाः रामचन्द्रो पिरियोऽस्तु' इत्यनुज्ञानम् , यथा चाभ्रान्तस्येदं विरुष्यते तथा प्रतिज्ञान्तरमपि | निमित्तभेदाच तद्भेदे अनिष्टनिग्रहस्थानान्तराणामध्यनुषाः स्यात् । तेषां च तत्रान्तर्भाव प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति २।।
८२. "प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः" न्यायसू, ५. २, ४] नाम निग्रहस्थानं भवति । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्थानुपलब्धेरिति । सोऽयं 10 प्रतिज्ञाहेत्वोविरोधःयदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः १, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ?, तदयं प्रविज्ञाविरुद्धाभिधानात् पराजीयते । तदेतदसङ्गतम् । यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते प्रकारान्तरतः प्रतिज्ञाहानिरेक्यमुक्ता स्यात् , हेतुदोपो वा विरुद्धतालक्षणः, न प्रतिज्ञादोष इति ३।
६८३. पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव नियानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति । यथा अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायाभुद्धावितायां यदि बयान-क एवमाह-अनित्यः शब्द इति-स प्रतिज्ञासंन्यासान् पराजितो भवतीति । एतदपि प्रतिज्ञाहानितो न भिद्यते, हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिज्ञायाः परित्यागाविशेषात् ४ ।
८४. अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेन्वन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दक्षिले-'जातिमश्वे सति' इत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । इदमप्यतिप्रसृतम् , यतोऽविशेषोक्तं दृष्टान्ते उपनये निगमने या प्रतिपिद्धे विशेषमिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुपज्येत, तवाप्याक्षेपसमाधानानां समानत्वादिति ५३
६८५. ग्रंकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थान भवति । यथा अनित्यः शब्दः । कृतकत्वादिति हेतुः । हेतुरिति हिनोते तोस्तुप्रत्यये कृदन्तं पदम् । पदं च नामाख्यातनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यते । एतदप्यर्थान्तरं निग्रहस्थानं समथें साधने दूषणे वा प्रोक्ते
१ पूर्व प्रतिः । २ - "ततोप० - ३० । ३ यदा प्रतिवादिना अकृतेऽपि प्रति]ज्ञा[ता]प्रतिषेधे आशययाय)बोच्यतेऽसयंमतस्तु शब्द इति तदा अन्यनिमित्तकत्वं प्रतिज्ञान्तरस्य । ४ - ७वशालच्छब्दोर-डे । ५-- • मुम्वर:-हे । १ इति प्रति०-डे० । ७. एव्य-ता. । इति हेत्वन्तरम् । ह प्रकृतार्थादर्थाम्तरम्-डे। १. पदं भाम - ता० । ११ प्रत्ययमामा० ... डे.. ।