________________
वादस्य निरूपणम् । ]
प्रमाणमीमांसा |
६३
नात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचार - च्छलम् । यथा मश्वाः क्रोशन्तीति उक्ते परः प्रत्यवतिष्ठते - कथमचेतनाः मञ्चाः क्रोशन्ति मञ्चस्थास्तु पुरुषाः क्रोशन्तीति । तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्दसामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति ॥ २९ ॥
६७. साधनदूषणाभिधानं च प्रायो वादे भवतीति वादस्य लक्षणमाहतन्वसंरक्षणार्थं प्रानिकादिसम साधनदूषणवदनं वादः ॥ ३० ॥
6
६६८. स्वपक्षसिद्धये वादिनः 'साधनम्' तत्प्रतिषेधाय प्रतिवादिनो 'दूषणम् । प्रतिवादिनोऽपि स्वपक्षसिद्धये 'साधनम्' तत्प्रतिषेधाय वादिनो 'दूषणम्' । तदेवं वादिनः साधनदूषणे प्रतिवादिनोऽपि साधनदूषणे द्वयोर्वादिप्रतिवादिभ्याम् 'वदनम्' अभिधानम् 10 'वाद:' । कथमित्याह- 'प्रानिकादिसमक्षम्' । प्रानिकाः सम्या:--
"स्व समयपर समयज्ञाः कुलजाः पचयेप्सिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥"
इत्येवंलक्षणाः । 'आदि' ग्रहणेन सभापतिवादिप्रतिवादिपरिग्रहः, सेयं चतुरङ्गा कथा, एकस्याप्यस्य वैकल्ये कथात्वानुपपतेः । नहि वर्णाश्रमपालनक्षम न्यायान्याथव्य - 15 स्थापक पक्षपातरहितत्वेन समदृष्टि सभापतिं यथोक्तलक्षणांच प्रानिकान् विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ । नापि दुःशिक्षितकुतर्कलेशवाचालबालिशजनविप्लावितो गतानुगतिको जनः सन्मार्ग प्रतिपद्येतेति । तस्य फलमाह 'तसंरक्षणार्थम्' | 'त' शब्देन तत्त्वनिश्वयः साधुजनहृदयविपरिवर्ती गृह्यते, तस्य रक्षणं दुर्विदग्धजनजनितविकल्पकल्पनात इति ।
20
11
९ ६९, ननु तवरक्षणं जल्पस्य वितण्डाया वा प्रयोजनम् । यदाह - "तबाव्यवसायसंरक्षणार्थं जल्पवितण्डे भीजप्ररोह संरक्षणाथ कण्टकशाखापरिचरणवत्' [ न्यायसू० ४.१.५० ] इति न वादस्यापि निग्रहस्थानत्रत्वेन तत्त्वसंरक्षणार्थत्वात् । न चास्य निग्रहस्थानवत्वमसिद्धम् ! " प्रमाणतर्कसाघनोपालम्भः सिद्धान्तांविरुद्धः पकचावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो बाद ” 25 [ न्यायसू० १. १. १ ] इति वादलक्षणे सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य पञ्चावयवोपपद्म इत्यनेन न्यूनाधिकयोर्हेत्वाभासपञ्चकस्य वेत्यष्टानां निग्रहस्थानानामनुज्ञानात् तेषां च निग्रहस्थानान्तरोगलक्षणत्वात् । अत एव न जल्पवितण्डे कये, वादस्यैव तत्वसंर क्षणार्थत्वात् ।
7
$ ७०. ननु " यथोस्कोप पत्रच्छलजातिनिग्रहस्थान साधनोपालम्भो जल्पः " 30
१-०क्षणे तयोर्वा०डे० । २ इत्येवंत्वल० है ० ।