________________
दूषणाभासनिरूपणम् । ]
प्रमाणमीमांसा |
६१
स्थानात् १२ | अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । गथा अनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते । तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति १३ । साथfeer veer at या जातिः पूर्वमुदाहृता सैव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशreat fararara इति १ १४ । द्वितीया प्रयुज्यमाना 5 सैव साधर्म्यसमा बैधर्म्यसमा वा जातिः प्रकरणसमा भवति । तत्रैव अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे - नित्यः शब्दः श्रावणत्वाच्छन्देववदिति उद्भावनप्रकार मेदमात्रे सति नानात्वं द्रष्टव्यम् १५ । त्रैकाल्यानुपपच्या हेतोः प्रत्यवस्थानमहेतुसमा जातिः । यथा हेतुः साधनम् । तत् साध्यात्पूर्वं पश्चात् सह वा भवेत् ? । यदि पूर्वम् असति साध्ये तत् कस्य साधनम् १ | अथ पश्चात्साधनम् ; पूर्वं तर्हि साध्यम्, तस्मिंश्र पूर्वसिद्धे 10 किं साधनेन ? | अथ युगपत्साध्यसाधनेः तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ । अर्थापच्या प्रत्यवस्थानमर्थापत्तिसमा जातिः । यद्यनिपसाधम्र्म्यात्कृतकत्वादनित्यः शब्दः, अर्थादापद्यते नित्यसाधम्र्यान्नित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्य निरवयवत्वमित्युद्धावनप्रकारभेद एवायमिर्ति १७ । अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दपटयोरेको धर्मः 15 कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपस्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा यदि कृतकत्वोप पस्या शब्दस्यानित्यत्वम्, निरवयवत्वोपपस्या नित्यत्वमपि कस्मान्न भवति ? । पक्षद्वयोपपरयाऽनध्यवसाय पर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ । उपलstor प्रत्यवस्थानमुपलब्धिसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा- 20 दिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयलानन्तरीयकत्वमनित्यत्वे साधनम् ; साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयज्ञानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वम् । शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकस्वहेतावुपन्यस्ते सत्याह जातिवादी न प्रयलकार्यः शब्दः प्रागुचारणादस्स्यैवासाबाव- 25 रणयोगात नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत् न, आवरणानुपलम्भेप्यनुपलम्भसद्भावात् | आवरणानुपलब्धेश्वानुपलम्भाद्भावः । तदभावे चारणोपलब्धेर्भावो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रyereणादग्रहणमिति प्रयत्नकार्यस्थाभावानित्यः शब्द इति २१ । साध्य
b
१ तथैवानि ०-० । २ जैनं प्रति दृष्टान्तः साध्यविकलस्तेन हि शब्दत्वस्य नित्यानित्यत्वस्याभ्युपेतत्वात् व्याप्तिरप्य सिद्धा । ३ उद्भावनं प्र० स० । ४ तस्मिन् पूर्व सिद्धे है० । ५-- ज्ञावनं प्र०डे० । ६ अत्र कमेवोशरम् । ७-०त्यैवावर ० - ० । चेत् आ०० ९ अत्रोसरम् — प्रत्ययमेवभेदित्वात अ(?)प्रयत्नानन्तरीयकत्वं विशितशब्दस्व सिद्धमेव द्रव्यस्य (1) प्रयत्नेन शब्दों विवक्षितो जन्यत एव न तु व्यज्यते ।