SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू०९-१५. संहारवचनवत् । यथा हि साध्यध्यातसाधनदर्शनेन तदाधारावगतावपि नियतधर्मिसम्बन्धिताप्रदर्शनार्थम्-कृतकश्च शब्द इति पक्षधर्मोपसंहारवचनं तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय प्रतिज्ञाचनमप्युपपद्यत एवेति ॥८॥ ६१९. ननु प्रयोग प्रति विप्रतिपद्यन्ते वादिनः, तथाहि-प्रतिमाहेतूदाहरणानीति । व्यवयवमनुमानमिति सारथाः । सहोपनयेन चतुरवयवमिति मीमांसकाः । सहनिगमनेन पञ्चावयवमिति नैयायिकाः। तदेवं विप्रतिपसौ कीशोऽनुमानप्रयोग इत्याह एतावान् प्रेक्षप्रयोगः ॥ ९॥ २०. 'एतावान्' एवं यदुत तथोपपत्यान्यथानुपपन्या या युक्तं साधनं प्रतिज्ञा च । 10 'प्रेक्षाय' प्रेक्षावते प्रतिपाद्याय तदवोधनार्थः 'प्रयोगः' न त्वधिको यथाहुः साङ्ख्यादयः, नापि हीनो यथाहुः सौगता:-"विदुषां वाच्यो हेतुरेव हि केवल!" [प्रमाणवा. १. २८ ] इति ॥ ९॥ २१. ननु परार्थप्रकृतैः कारुणिकैर्यथाकश्चित् परे प्रतिबोधयितव्या नासधवस्थोपन्यासैरमीषा प्रतिभाभङ्गः करणीयः, तकिमुच्यते एतावान् प्रेक्षप्रयोगः १, इत्या15 शथ द्वितीयमपि प्रयोगक्रममुपदर्शयति बोध्यानुरोधात्प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥१०॥ ६२२. 'योध्या शिष्यस्तस्य 'अनुरोधः तदवोधनप्रतिज्ञापारतन्त्र्यं तस्मात्, प्रतिशादीनि पश्चापि प्रयोक्तव्यानि। एतानि चावयवसझया प्रोच्यन्ते । यदक्षपादः-"प्रतिज्ञा हेतूदाहरणोपनयनिगमनान्यवयवाः" न्यायसू. १. १. ३२] इति । 'अपि' शब्दात् प्रति20 ज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यच्छ्रीभद्रबाहुस्वामिपूज्यपादाः"कत्था पचावयवं दसहा था सब्दहा ण पडिकु ति॥" [ दश.नि. ५.] $२३. तत्र प्रतिज्ञाया लक्षणमाह ___ साध्यनिर्देशः प्रतिज्ञा ॥११॥ 25२४. साध्यं सिपाधयिषितधर्मविशिष्टोधर्मी, निर्दिश्यते अनेनेति निर्देशो वचनम्, साध्यस्य निर्देशः 'साध्यनिर्देशः' 'प्रतिज्ञा' प्रतिज्ञायतेऽनयेति कृत्वा, यथा अयं प्रदेशोऽग्निमानिति ॥ ११ ॥ ६ २५. हेतुं लक्षयति साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥ १२ ॥ १ तथाहि-जे । २ सामान्यतः साधनधर्माधाराबव(ग)तिः । ३ ... बानपच-डे० । ४ यदाहः-डे । ५ समायहेतुभावी हि हटाते सदवेदिनः। ख्याप्येते" । ६ परे बोध. -डे ०। ७ परेषाम् । प्रतिमतः-डे । प्रतीतिभन: -मुक -वान् प्रबो-ता।
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy