SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री हेमचन्द्रविरचिता ( अ० २ ० १ सू० ५८. १८. ' तथा ' साध्यं सत्येव 'उपपत्तिः' साधनस्येत्येकः प्रकारः । 'अन्यथा साध्याभावे 'अनुपपत्तिः 'चेति द्वितीयः प्रकारः । यथा अभिमानयं पर्वतः तथैव धूमवच्वोपपतेः, अन्यथा धूमaangeeta | एतावन्मात्रकृतः परार्थानुमानस्य भेदो न पारमार्थिकः स इति भेदपदेन दर्शयति ॥ ४ ॥ 5 ६९. एतदेवाह नानयोस्तात्पर्ये भेदः ॥ ५ ॥ १०. 'ने' 'अनयो:' तथोपपश्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोः 'तात्पये' 'परः शब्दः स शब्दार्थः' इत्येवंलक्षणे तत्परत्वे, 'भेद:' विशेषः । एतदुक्तं भवति अन्यदभिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते, 10 प्रकाश्यं त्वभिन्नम्, अन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि । नहि पीनो देवदत्तो दिवा न भुङ्क्ते, पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदोऽस्तीति तात्पर्येणापि भेतव्यमिति भावः ||५|| ६११. तात्पर्याभेदस्यैव फलमाह- 15 20 ५० 25 अत एव नोभयोः प्रयोगः ॥ ६ ॥ १२. यत एव नानयोस्तात्पर्ये भेदः 'अत एव नोभयोः' तथोपपच्यन्यथानुपपस्योर्युगपत् 'प्रयोगः' युक्तः । व्यात्युपदर्शनाय हि तथोपपच्यन्यथानुपपत्तिभ्यां हेतोः प्रयोगः क्रियते । व्यात्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः । यदाह"तोस्तथोपपस्या वा स्यात्प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥" [ न्याया० १७ ] १३. नलु यद्येकेनैव प्रयोगेण हेतोर्व्याप्युपदर्शनं कृतमिति कृतं विफलेन द्वितीयप्रयोगेण तर्हि प्रतिज्ञाया अपि मा भूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात् चिदर्थं प्रतिपद्यते, तथा सति हि विप्रतिपत्तिरेव न स्यादित्याह - विषयोपदर्शनार्थं तु प्रतिज्ञा ॥७॥ १४. 'विषयः' यत्र तथोपपत्त्यन्यथानुपप वा हेतु: स्वसाध्यसाधनाय प्रार्थ्यते, तस्य 'उपदर्शनम्' परप्रतीतावारोपणं तदर्थे पुनः 'प्रतिज्ञा' प्रयोक्तव्येति शेषः । १ अग्निमत्त्वे सत्येव । २ ० इति ० ० ३ ० प्रती 'न' नास्ति । ४ मः शब्दस्य परार्थस्तत् तास्पर्यमिति भावः । ५ यः परः प्रकृष्टोऽर्योऽस्य । ६ शब्दस्यार्थः ता० । ७ (१) यस्तयोपपत्त्या विधिर्वाय्यः secretaryear तु निषेधः । निठि (?) शेषः । & सूत्रार्थस्य १० कचिदर्थं ता० । ११ प्रतिक्षामात्रादप्रतिपत्तेः । १२ विषय प्रद० -ता-० । १३ स्वसाध०डे० ।
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy