________________
C
areer
en
Wave
॥ अथ द्वितीयोऽध्यायः ॥ ६१. लक्षितं स्वार्थमनुमानमिदानीं क्रमप्राप्तं परार्थमनुमानं लक्षयति
यथोक्तसाधनाभिधानजः परार्थम् ॥ १॥ ३२. 'यथोक्तम्' स्वनिश्चितसाध्याविनाभावैकलक्षण यत् 'साधनम् तस्याभिधानम्। अभिधीयते परस्मै प्रतिपाधते अनेनेति 'अभिधानम्' वचनम् , तस्माजातः सम्यगर्थनिर्णयः 'परार्थम्' अनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः ॥१॥ ६३. ननु वचनं परार्थमनुमानमित्याहस्तस्कथमित्याह
वचनमुपचारात् ॥ २ ॥ ४. अवेतनं हि वचनं न साक्षात्प्रमितिफलहेतुरिति न निरुपचरितप्रमाणभावभाजनम् , मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्रता प्रतिपद्यते । उपचारश्रात्र कारणे कार्यस्य । यथोक्तसाधनामिधानात् तद्विपया स्मृतिरुत्पद्यते, स्मृतेश्चानुमा- 10 नम्, तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणम्, तस्मिन् कारण बचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात कारण वचनमनुमानशब्देनोच्यते । कार्ये वा प्रतिपादकानुमानजन्ये बचने कारणस्यानुमानस्योपचारः। वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः । __५. इह च मुख्यार्थबाधे प्रयोजने निमिचे चोपचारः प्रवर्तते । तत्र मुख्या- 15 ऽर्थः साक्षात्ममितिफलः सम्यगर्थनिर्णयः प्रमाणशब्दसमानाधिकरणस्य परार्थानुमानशब्दस्य, तस्य बाधा, वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनम् अनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव, निर्णयात्मन्यनशे तद्व्यवहारानुषपचेः। निमित्तं तु निर्णयात्मकानुमानहेतुत्वं वचनस्येति ॥ २ ॥
तद् द्वेधा ॥३॥ ६६. 'तत् वचनात्मकं परार्थानुमानं 'देवा' द्विप्रकारम् ॥ ३ ॥ ६७. प्रकारभेदमाह
तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥ ४ ॥ १ प्रथम द्वितीयं च सूत्रद्वयं ता-मू० प्रती मैदकदिनं विना सहैव लिखितं दृश्यते। २ यथा उक्तम् । ३ अनुमानशब्दवाच्यताम् । ४ मुख्यार्थस्योपचारः। ५ - शब्दः समा -डे । ३ अग्निर्माणवक इस इत्या मुख्य दाहकत्यम् , पर्जनीयत्वबुद्भिः प्रयोजनम् , शाब्दप्रवृत्ती निमित्तमुपतापकत्वम् । ७ पराभुमाने । ८ पूर्वोक्क०। ९ प्रवृत्तौ।
READLIBRARAULIARRIORSMSUTRAEBARidiodaundiseUANIABARis2.30DRAweisaduintHAIslandaaiadede