________________
* * *....... PRIMADIRA
M
m
msmammmmmmm
m mmm
H MIRMIRMWAR
:
-.................
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ०२, सू० १४–१९. ६५७. अबाध्यग्रहणच्यक्च्छेयां बाधा दर्शयति
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ $ ५८. प्रत्यक्षादीनि तद्विरुद्धार्थोपस्थापनेन बाधकत्वात् 'राधा' । तत्र प्रत्यक्षबाधा यथा अनुष्योऽनिः, न मधु मधुरम् , न सुगन्धि विदलन्मालतीमुकुलम् , अचाक्षुषो 5 घटा, अश्रावणः शब्दः, नास्ति बाहिरर्थ इत्यादि। अनुमानबाधा यथा सरोम हस्ततलम् , नित्यः शब्द इति वा । अत्रानुपलम्मेन कूतकत्वेन चानुमानबाधा । आगमबाधा यथा प्रेत्याऽमुखप्रदो धर्म इति । परलोके सुखप्रदत्वं धमस्य.सर्वागमसिद्धम् । लोकबाधा यथा शुचि नरशिरस्कपालमिति । लोके हि नरशिकपालादीनामशुचित्वं सुप्रसिद्धम् | स्ववच
नवाघा यथा माता मे बन्ध्येति । प्रतीतिबाधा यथा अचन्द्रः शशीति । अत्र शशिनश्च10 न्द्रशब्दवाच्यत्त्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥
६ ५९. अत्र साध्य धर्मः, धर्मधर्मिसमुदायो वेति संशयव्यवच्छेदायाह--
साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥१५॥
६०. 'साध्यम्' साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह 'साध्यधर्मेण ऑनत्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत् प्रयोगकालापेक्षं साध्यशब्दवा16 च्यत्वम् । 'कचित्तु' व्याप्तिग्रहणकाले 'धर्म' साध्यशब्देनोच्यते, अन्यथा व्याप्तेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽभिमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति।।१५॥ धर्मिस्वरूपनिरूपणायाह
धर्मी प्रमाणसिद्धः ॥१६॥ $ ६१. 'प्रमाणे प्रत्यक्षादिमिः प्रसिद्धो 'धर्मी' भवति यथाग्निमानय देश इति । अत्र 20 हि देशः प्रत्यक्षेण सिद्धः। एतेन-"सर्व एवानुमानानुमयव्यवहारो बुध्यारूढेन
धर्ममिन्यायेन, न बहिः सदसवमपेक्षते" इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति, तदैवास्तवत्वे तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः तबुद्धेः पारम्पर्येणापि वस्तुब्यवस्थापकत्वायो
गात् । ततो विकल्पेनान्येन या व्यवस्थापितः पर्वतादिविषयभावं भजन्नेव धर्मितां प्रति26 पद्यते । तथा च सति प्रमाणसिद्धस्य थर्मिता युक्तैव ॥१६॥
साथ्य। २कृतकत्वाविति हेतुः। ३ विविधरसप्रभवस्वात् अनेकरससंयोगवत् । ४ लकदेशस्वात् पत्रवत् । ५रूपादत्यन्तव्यतिरिक्तस्वात् वायुवत् । यथावस्थेन रूपेशाप्रतिभासमानत्वात् यदस्ति तपथावस्थितरूपेणाप्रतिभासमानमपि नास्ति यथा झानम् । ७ शरीरावयवत्वात् बाहुवत् । वव्यास्त्रीसमानारत्वात् । चन्द्रशन्दवाच्यः शशीन भवति आकाशोदितत्वात् सूर्यवत् । १०.०लापिक्ष्यं -ता। . ११ साधनम् । ११ साच्यम् । १३ - मेयस्य 840-ता.। १४ धर्मिणः। १५ सधी आधारो अयोः । ११ सदबुर्विकल्पज्ञानस्या1१७मिविकल्पकं प्राप्त विषयम, तविकरूपोऽपि प्राप्तविषय इति। एवंलक्षणपारम्पर्यणाषि। १५ निर्विकल्पेन। १९ विकल्पस्य विषयभाषम् ।
.......................