SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Moon kareMPARAMERESERVICHAR 15 साध्यस्य निरूपणम् । ] प्रमाणमीमांसा दिति चेत् ; हन्तैयं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शर्कटोदयकत्तिकोदयादीनां तु यथाऽविनाभावं साध्यसाधनभावः । यदाह- "एकार्थसमवायस्तु यथा येषां तथैव ते । गमका गमकस्तन्न शकटः कृसिकोदितः ॥" एक्मन्येष्वपि साधनेषु वाच्यम् । ननु कृतकत्वानित्यत्वयोरेकार्थसमवायः कस्मान्ने । प्यते ?; न, तयोरेकत्वात् । यदाह "बाचन्तापेक्षिणी सत्ता कृतकस्थमनित्यता । एकैव हेतु: साध्यं च अयं नैकाश्रयं ततः ॥” इति । ५०. स्वभावादीनां चतुर्णा साधनानां विधिसाधनता , निषेधसाधनत्वं तु । विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति अन्यथा विरोधासिद्धः। 10 ६ ५१. 'च'शब्दो यत एते स्वभावकारणकार्यध्यापका अन्यथानुपपन्नाः स्वसाध्यमुपस्थापयन्ति तत एव तदभाचे स्वयं न भवन्ति, तेषामनुपलब्धिरप्यभावसाधनीत्याह । सत्र स्वभावानुपलब्धियथा मात्र घटः, द्रष्टुं योग्यस्यानुपलब्धः। कारणानुपलब्धिर्यथा मात्र धूमोऽग्न्यभावात | कार्यानुपलब्धियथा नात्राप्रतिवद्धसामथानि धूमकारणानि सन्ति धूमाभावात् । व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावात । ५२. विरोधि तु प्रतिषेध्यस्य तत्कार्यकारणव्यायकानां च विरुद्ध विरुद्धकार्य च । यथा न शीतस्पर्शः, नाप्रतिबद्धसामर्थ्यानि शीतकारणानि, न रोमहर्षविशेषाः, न तुषारस्पर्शः, अग्नेधूमावेति प्रयोगनानात्वमिति ।। १२ ।। ५ ५३. साधनं लक्षयित्वा विभज्य च साध्यस्य लक्षणमाह सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥ 20 ५४. साधयितुमिष्टं "सिपाधयिषितम् । अनेन साधयितुमनिष्टस्य साध्यत्वव्यवच्छेदः, यथा वैशेषिकस्य नित्यः शब्द इति। शास्त्रोक्तत्वाद्वैशेषिकेयाभ्युपगतस्याप्याकाशगुणत्वादेन साध्यत्वम्, तदा साधयितुमनिष्टत्वात् । इष्टः पुनरनुक्तोऽपि पक्षो भवति, यथा परार्थाश्चक्षुरादयः सञ्चतत्वाच्छयनाशनायङ्गकदित्यत्र परार्था इत्यात्मार्थाः । बुद्धिमत्कारणपूर्वकं क्षित्यादि कार्यत्वादित्यत्राऽशरीरसर्वज्ञपूर्वकत्वमिति । 25 ५५. 'असिद्धम्' इत्यनेनानध्यवसाय-संशय-विपर्ययविषयस्य वस्तुनःसाध्यत्वम् , न सिद्धस्य यथा श्रावणः शन्द इति । "नानुपलब्धे न निर्णीत न्यायः प्रवर्तते" [न्यायभा० १.१.इति हि सर्वपार्षदम् । . ६ ५६. 'अवाध्यम्' इत्यनेन प्रत्यक्षादिवाधितस्य साध्यत्वं मा भूदित्याह ! एतत् साध्यस्य लक्षणम् । 'पक्षः' इति साध्यस्यैव नामान्तरमेतत् ॥१३॥ १ शकटोदये प्रत्यक्ष सति कृत्तिकोदयस्थापि प्रत्यक्षावार नानुमानतस्तदगमः । २ एकार्थसमायिनों ध्यापका इति। ३ अन्यथानुपपनसादेव । ४धूमाभावाद्वा -सा। कार्य यथा -२३ । ६ परार्था बुद्धि है । ७ - पूर्व क्षिा हे । ८ इत्याह । ___30
SR No.090370
Book TitlePramanmimansa
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1989
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy