________________
A
minormer
गा
monetary
RRORRRRRR
10
अविनामावस्य निरूपणम् । ] प्रमाणमीमांसा।
३४. एतेन पञ्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् , तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि-त्रैरूप्यं पूर्वोक्तम् , अनाधितविषयत्वम् , असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमवाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कृतकत्वात् घटवत् । बामणेन सुरा पेया द्रिय द्रव्यत्वात् क्षीरवत् इति । तभिषेधादबाधितविषयत्वम् । प्रतिपक्षहेतुबाधितत्वं सत्प्रतिपक्षत्वं यथानित्यः शब्दो नित्यधर्मानुपलब्धेः । । अत्र प्रतिपक्षहेतुः-नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्प्रतिपक्षत्वम् । तत्र याधितविषयस्य सत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमपि सङ्ग्रहीतम् । यदाह-"वाधाविनाभाषयोर्विरोधात्" [ हेतु परि० ४] इति । अपि च, स्वलक्षणलक्षितपक्षविषयत्वाभावात् तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन । तत् स्थितमेतत् साध्याविनाभौवकलक्षणादिति ।। ९ ।। ६ ३५. तत्राविनाभावं लक्षयति--
सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ ६ ३६. “सहभाविनोसामध्यधामयोः फलादिमतयो रूपरसयोः व्याप्यव्यापकयोग शिंशपात्ववृक्षत्वयोः, 'क्रमभाविनो' कृत्तिकोदयशकटोदययोः, कार्यकारणयोश्च धूमधूमध्वजयोर्यथासङ्घयं यः 'सहक्रममावनियम:'-सहभाविनोः सहभावनियमः क्रममा- 15 विनोः क्रममावनियमः, साध्यसाधनयोरिति प्रकरणालभ्यते सः 'अविनाभावः ॥१०॥
३७. अथैवविधोऽविनाभावो निश्वितः साध्यन्नतिपत्यङ्गमित्युक्तम् । समिश्वयश्च कुतः प्रमाणात् १ । न तावत् प्रत्यक्षात् , तस्यैन्द्रियकस्य सन्निहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्व विषयं तथोपीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः। अन्यथान्ध-बधिरार्धभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते 20 न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतियत्तिरेव ततोऽस्तु, किं तपस्विनाऽनुमानेन ? | अनुमानात्वविनाभावनिश्चयेऽनैवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेव विधविषयग्रहणप्रवणमस्तीत्याह
ऊहात् तन्निश्चयः ॥ ११ ॥ ३८. 'ऊहात्'तर्कादुक्तलक्षणात्तस्याविनाभावस्य 'निश्चयः ॥ ११ ॥ ३९. लक्षितं परीक्षितं च साधनम् । इदानीं तत् विभजति--
१ साथ्यमनुमेयमिति यावत् । २-तधर्म-डे । ३ तात्य • पृ. ३४०.। ४-स्य तत्प्रा-डे । ५ यदाहुः ता०। ६ पक्षदोषावेवैती। साभ्यसाधनयोः । ८ खनिश्चित इत्यनेन निश्चितः सन् । ९ प्रत्यक्षप्राधबायार्थापेक्षया सुखादश्च एक्सेव गृहाति । १० मनसव सर्वेन्द्रियार्थग्रहणात् । ११ अग्न्यादि । १२. पतिरपि ततो-डे । १३ अनुमानतो त्यविनामावनिश्चये तस्याप्यनुमानस्याविनाभावनिश्वये कमनुमानासरं चिन्त्यम्(1)। स्थापि अन्यदित्याद्यनवस्था । इतरेतराधयस्तु अनुमानादविनाभावनिश्चयो अविनाभाचे व निश्चिते अनुमानोत्थानमिति ।